मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 296, कुल 672 में से
संदर्भ में पढ़ें254 मानमेयरहस्यश्लोकवार्तिके इदं सर्वाद्वैतवादप्राग्रूपमिति केचन । समवायैक्यपक्षेऽपि तथैवेत्यपरे विदुः ॥ २ अथ संयोगसंबन्धः सौगतैर्नाभ्युपेयते । प्रत्यासत्तिः प्रतिघातावसानेति हि तन्मतम् ॥ अर्थान्तरस्य हेतुत्वान्नासौ निह्नवमर्हति । शब्दरूपस्पर्शहेतुः कश्चिदागन्तुको ह्यसौ ॥ अमृते गरले तूले चोपले ब्राह्मणे गवि । चण्डाले कपिकच्छ्वादौ स्पर्शभेदोऽनुभूयते ॥ संयोगेनान्यथासिद्धिमातिष्ठन्ते विपश्चितः । संयोगापह्नवे सर्वो व्यवहारो विरुध्यते ॥ निरन्तरस्थितिः काचित्संयोग इति केचन । स्थितिः तद्देशसंयोग एवेत्यन्यैः प्रतीर्यते ॥ संयोगदेशकालाद्यैः प्रसिद्धैश्च ह्युपाधिभिः । परिषद्वाशिविपिनयूथसंघातपङ्क्तयः ॥ मण्डलव्यूहसंकीर्णचतुरश्रादिमूर्तयः । अबाधितव्यवहृतिविषया निरुपाधिकाः ॥ महत्त्वैकत्वयुक्तत्वप्रमुखा बहवो गुणाः । संयुक्तद्रव्यनिष्ठास्तत्संयोगोऽशक्यनिह्नवः ॥ सादृश्यवच्च संयोगः कैश्चिन्मीमांसकैः पुनः । अनुयोगिप्रतियोगिभेदाद्भिन्न इतीष्यते ॥