भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 297, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 297

संबन्धवादः 25. विभूनां चेदसंयोगः सान्तरत्वं प्रसज्यते । अतएवाजसंयोगः शब्दश्रवणयोर्मतः ॥ सर्वाधारत्वसिद्ध्यर्थमीश्वरेऽपीष्यते बुधैः । गुणवादे च संयोगविस्तरश्चावधार्यताम् ॥ 3 एकार्थसमवायादिस्समवायनिबन्धनः । तादात्म्यनामकः भाट्टैः भिन्नाभिन्नत्वलक्षणः ॥ समवायस्य च स्थाने संबन्धः पर्यभाष्यत । तादात्म्यलक्षणो भेदाभेदो ज्ञातश्चतुर्विधः ॥ जातिव्यक्त्योस्तु तादात्म्यं स्यात्सामान्यविशेषयोः । क्रियाक्रियावतोस्तावत् अवस्थातद्वतोर्मतम् ॥ अंशांशिभावस्तार्तीयः स मतो गुणतद्वतोः । कार्यकारणतादात्म्यं अवयव्यादिसंश्रितम् ॥ गोत्वं समुद्रो वृक्षश्च मृच्चोदाहरणं क्रमात् । व्यक्तिस्तरङ्गः शाखादिः कुम्भश्च प्रतियोगिनः ॥ 4 अभावस्यापि वैशिष्ट्यं संबन्धान्तरमिष्यते । कौमारिलैस्तार्किकैस्तु गौरवात्सोऽपलप्यते ॥ 5 कार्यकारणभावाख्यस्संबन्धोऽन्यत्र विस्तृतः । अन्यथा स्वप्रवृत्त्यादेश्शास्त्रादेरप्यनुत्थितिः ॥ 6 वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् । विरोधश्च स्ववाक्येषु किं कथं प्रतिपाद्यते ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 297, कुल 672 में से · BharatKosha