भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 300, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 300

अनागतमतीतं च विप्रकृष्टं तथेतरम् । विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥ अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी । अतो ज्ञानस्य सम्बन्धानुपपत्तिर्न विद्यते ॥ असतोर्पि सामान्याद्यात्मना वृत्तिसंभवात् । प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥ स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः । मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति । तत्र त्रितयभावेन सर्वसाधारणोऽपरः । विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥ विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् । अतीतादौ द्वत्वादिसंख्यावदुपपद्यते ॥ स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः । नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥ पदार्थान्तरमित्याहुः विषयत्वं तु केचन । नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥ 18 ज्ञानार्थयोस्तु संयोगमाहुर्धीद्रव्यवादिनः । पर्यायवादिनो ये च ये वा विकृतिवादिनः ॥ एवं निरूपिताः प्रायः विषयत्वाभिधेऽधुना । संबन्धे ये विकल्पास्स्युः सर्वदर्शनभूमयः ॥