मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 299, कुल 672 में से
संदर्भ में पढ़ेंसंबन्धवादः 11 केचित्त्वादर्शसंकाशे ज्ञाने नीलादिवस्तुनः । प्रतिबिम्बं तु संबन्धं विदुस्तद्ग्राह्यलक्षणम् ॥ 12 ये त्वर्थमपि विज्ञानं निराकारं विदुस्तयोः । योगादाकारनिष्पत्तिं चूर्णहारिद्रयोगवत् ॥ एते हि संसर्गधर्माकारवादिन ईरिताः । संसृष्टयोश्चोभयोरप्याकारं तं प्रचक्षते ॥ 13 केचिदर्थो निराकारस्सदा तद्योगभेदतः । ज्ञानं साकारमिति च प्राहुस्संसर्गवादिनः ॥ 14 साधारणोऽसावाकारः स्यादर्थज्ञानयोर्यथा । लाक्षा द्युमणिमध्यस्था तथेत्येके विदुर्बुधाः ॥ 15 पृथगेवाकारवन्तौ ज्ञानार्थावपरैर्बुधैः । सादृश्यादविवेकेन त्वाभासेते इतीष्यते ॥ 16 व्यवहारानुगुण्यं तद्विषयत्वं विदुः परे । कर्तृकर्मक्रियादीनां साधारणमिदं हि तत् ॥ 17 ज्ञानात्मकक्रियाजन्यफलभागित्वलक्षणम् । कर्मत्वं विषयत्वं तत् प्राकट्यं भाट्टसम्मतम् ॥ आत्मार्थयोः कर्तृकर्मज्ञातृज्ञेयस्वभावयोः । मानसप्रत्यक्षवेद्यः व्याप्यव्याप्तृत्वलक्षणः ॥ संबन्धः स्वस्य करणं कल्पयेत् ज्ञानलक्षणम् । ज्ञाततैवाथवाऽध्यक्षा कल्पयत्येव कारणम् ॥ M.R. 33