मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
संबन्धवादः 11 केचित्त्वादर्शसंकाशे ज्ञाने नीलादिवस्तुनः । प्रतिबिम्बं तु संबन्धं विदुस्तद्ग्राह्यलक्षणम् ॥ 12 ये त्वर्थमपि विज्ञानं निराकारं विदुस्तयोः । योगादाकारनिष्पत्तिं चूर्णहारिद्रयोगवत् ॥ एते हि संसर्गधर्माकारवादिन ईरिताः । संसृष्टयोश्चोभयोरप्याकारं तं प्रचक्षते ॥ 13 केचिदर्थो निराकारस्सदा तद्योगभेदतः । ज्ञानं साकारमिति च प्राहुस्संसर्गवादिनः ॥ 14 साधारणोऽसावाकारः स्यादर्थज्ञानयोर्यथा । लाक्षा द्युमणिमध्यस्था तथेत्येके विदुर्बुधाः ॥ 15 पृथगेवाकारवन्तौ ज्ञानार्थावपरैर्बुधैः । सादृश्यादविवेकेन त्वाभासेते इतीष्यते ॥ 16 व्यवहारानुगुण्यं तद्विषयत्वं विदुः परे । कर्तृकर्मक्रियादीनां साधारणमिदं हि तत् ॥ 17 ज्ञानात्मकक्रियाजन्यफलभागित्वलक्षणम् । कर्मत्वं विषयत्वं तत् प्राकट्यं भाट्टसम्मतम् ॥ आत्मार्थयोः कर्तृकर्मज्ञातृज्ञेयस्वभावयोः । मानसप्रत्यक्षवेद्यः व्याप्यव्याप्तृत्वलक्षणः ॥ संबन्धः स्वस्य करणं कल्पयेत् ज्ञानलक्षणम् । ज्ञाततैवाथवाऽध्यक्षा कल्पयत्येव कारणम् ॥ M.R. 33
अनागतमतीतं च विप्रकृष्टं तथेतरम् । विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥ अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी । अतो ज्ञानस्य सम्बन्धानुपपत्तिर्न विद्यते ॥ असतोर्पि सामान्याद्यात्मना वृत्तिसंभवात् । प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥ स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः । मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति । तत्र त्रितयभावेन सर्वसाधारणोऽपरः । विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥ विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् । अतीतादौ द्वत्वादिसंख्यावदुपपद्यते ॥ स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः । नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥ पदार्थान्तरमित्याहुः विषयत्वं तु केचन । नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥ 18 ज्ञानार्थयोस्तु संयोगमाहुर्धीद्रव्यवादिनः । पर्यायवादिनो ये च ये वा विकृतिवादिनः ॥ एवं निरूपिताः प्रायः विषयत्वाभिधेऽधुना । संबन्धे ये विकल्पास्स्युः सर्वदर्शनभूमयः ॥
19 प्रकाश्यता विषयता ग्राह्यतेत्येवमादयः । सर्वैर्दार्शनिकैः प्रायः समानार्था इतीष्यते ॥ कौमारिलैः पुनस्तत्र विशेषः कल्प्यते यथा । अग्न्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः ॥ न ते प्रकाश्यरूपा हि प्रकाशस्यानपेक्षणात् । ग्राह्यत्वं तु यदा तेषां तदाऽक्षं ग्राहकं मतम् ॥ अक्षग्रहणकाले तु ग्राहिका धीर्भविष्यति । इत्युक्तेर्ग्राह्यता भिन्ना प्रकाश्यत्वादिति स्थितम् । ब्रह्माद्वैतविदस्तत्र विपरीतं विदुर्यथा । संविदः स्वप्रकाशत्वाद्यद्यपि स्यात्प्रकाश्यता ॥ विषयत्वात्मिका तत्र नेष्यते त्वनुभाव्यता । नोचेदननुभूतित्वमनुभूतेः प्रसज्यते ॥ इति प्राहुस्ततो ग्राह्यताया भिन्ना प्रकाश्यता । एवं स्वयंप्रकाशत्वं त्रातुं वेद्यत्वनिह्नवः ॥ प्रकाशनिह्नवो भाट्टैः जाड्यं तस्यैव रक्षितुम् । स्वप्रकाशास्वप्रकाशधीविवादफलं त्विदम् ॥ 20 एवं कर्तृत्वकर्मत्वविरोधस्तन्निबन्धनः । कारकज्ञापकानैक्याविवेकात्सकलं त्विदम् ॥ कर्तृकर्मविरोधस्य रहस्यमिदमीरितम् । कर्ता स्वतन्त्रः कर्मादिरुपसर्जनमिष्यते ॥
स्वातन्त्र्यं पारतन्त्र्यं च युगपन्न च युज्यते । इत्येकमपरं चापि विद्वद्भिर्निरूपितम् ॥ कर्ता सिद्धः कर्म साध्यं कालभेदस्तयोर्मतः । एककालत्वमुभयोः विरुद्धमिति निर्णयः ॥ एष कालविरोधः स्यात् पूर्वो भवति दैशिकः । क्रियैव कारकं येषां सौगतानामभीप्सितम् ॥ तेषां कालोऽथवा देशः नास्त्येवहि विरोधकृत् । तस्माद्विरोधाविरोधविवादो वासनानुगः ॥ 21 समवायस्थले कश्चिदपृथक्सिद्धिलक्षणः । संबन्धः स्वीकृतः प्राज्ञैः तत्स्वरूपं निशम्यताम् ॥ सिद्धिर्नाम स्थितिः ज्ञप्तिः उत्पत्तिश्चापि कथ्यते । पृथक्स्थित्यादयो यस्य न सन्ति यदपेक्षया ॥ तयोस्स्यादपृथक्सिद्धिः संबन्ध इति गम्यते । कार्यादिकारणादीनां सा स्यादयुतसिद्धयोः ॥ अविष्वग्भावनाम्नाऽयं संबन्धः पुनरार्हतैः । स्वीकृतः सोऽपि देशानां भेदस्यैव निषेधकृत् ॥ कथंचित्तादात्म्यरूपमिति पातञ्जलादिभिः । स्वीकृतं वस्तुतस्तत्र फलभेदो न विद्यते ॥ 22 अथापृथक्सिद्धिवादतात्पर्यस्येह संग्रहः । क्रियते बुद्धिशुद्धयर्थं यन्मूलं सर्वदर्शनम् ॥
सम्बन्धवादः 26 यच्च वस्तुपरिच्छेदशून्यं ब्रह्माभिधीयते । तत्स्यादिदमिदं नेति निर्देशानर्हतात्मकम् ॥ तच्च स्वरूपाभेदात्स्यादपृथक्सिद्धितोऽपिवा । जडाजडविभागश्च प्रमाणपरिनिष्ठितः ॥ ततोऽपृथक्सिद्धसत्ताकत्वात्तत्स्यादिति स्थितम् । तच्च द्वैधैव घटते न प्रकारान्तरस्थितिः ॥ तत्र चैतत्सत्त्वभिन्नसत्त्वशून्यत्वतोऽथवा । यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥ इति स्मृत्यैतदायत्तसत्ताकत्वाद्भेवेद्वापि । तत्राद्यं तु विशेष्याख्यसत्ताशून्यत्वतोऽथच ॥ व्यतिरिक्तस्वरूपस्य विशेषणदलस्य वा । अभावात्तत्राद्यपक्षः बाह्याद्वैताभ्युपागतः ॥ अनन्तरस्तु वेदान्ताद्वैताभ्युपगतो मतः । विशिष्टाद्वैतसिद्धान्ते तत्सत्तायत्तसत्तया ॥ अपृथक्सिद्धिरुरीकृता तत्र द्वयी गतिः । ब्रह्मसत्त्वेनैव सत्त्वं प्रपञ्चस्योपपद्यते ॥ अतिरिक्ता नास्ति सत्ता गुणजातिनयादिति । इयमेका रीतिरन्या त्ववधानेन बुद्धयताम् ॥ प्रपञ्चे चापि सत्ताऽस्ति प्रमाणपरिनिष्ठिता । सा ब्रह्मसत्तायत्ता स्यादित्येकेषां विनिर्णयः ॥
262 मानमेयरहस्यश्लोकवार्तिके द्विधाऽपि जगतो नास्ति मिथ्यात्वं तुच्छताऽपिवा एवं द्वैतादिसिद्धान्ते निर्णीता प्रायशो गतिः ॥ (54) अभाववादः. 1 अथचाभावतत्त्वस्य जिज्ञासाऽत्र प्रवर्तते । अभावतत्त्वव्यत्यासाद्विवादाना समुद्भवः ॥ अभावो निस्स्वभावस्स्यान्न कार्यं नापि कारणम् । तस्मान्नोत्पद्यते नैवोच्छिद्यते नित्य एव सः ॥ नित्येन प्रागभावेन ध्वंसेनापिच तादृशा । ग्रस्तं विश्वं निस्स्वभावं तच्छून्यमिति सौगताः । तत्रातिरिक्तमपरे त्वभावं नानुजानते । अनुजानन्तोऽपि परे तत्तत्त्वं त्वित्थमूचिरे ॥ 2 नास्तीत्याद्यध्यक्षसिद्धो ह्यभावो भूतलादिषु । घटादेः, वस्तुभूतोऽसौ नहि निह्नवमर्हति ॥ अभावव्यवहारोऽपि निःशङ्कगमनादिकः । तन्मात्रानुभवेनैव ख्यातो निष्कण्टकाध्वसु ॥ यदा यत्र च दृश्यत्वे सत्यप्यनुपलम्भनम् । तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥ ज्ञेयाभावस्य तु ज्ञानाभावरूपत्वकल्पने । अभावाख्यपदार्थोऽङ्गीकृत एव भवेन्ननु ॥
अभाववादः 26 दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः । दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥ अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी । व्यर्थस्त्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः अभाववादिनो यत्स्यादभावज्ञानकारणम् । तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥ घटादिव्यवहाराणामपि तज्ज्ञानकारणात् । संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥ जगतो मिश्ररूपत्वं स्यादभावो नचेदिह । क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥ शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि । अप्सु गन्धो रसश्चाग्नौ वाय्वादावपि ते गुणाः ॥ प्रागभावादिभेदेन नाभावो भिद्यते यदि । नच स्याद्व्यवहारोऽयं कारणादिविभागतः ॥ नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता । मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥ स चतुर्विध इत्युक्तः प्रागभावादिभेदतः । अपेक्षाभावसामर्थ्याभावाभ्यां षड्विदुः परे ॥ क्षीरे दध्यादि यन्नास्ति प्रागभावस्स उच्यते । गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥
264 मानमेयरहस्यश्लोकवार्तिके शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोत्यन्ताभाव उच्यते ॥ 3 अपेक्षाऽभाव एवासौ यस्स्यात्सामयिको मतः । उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ॥ अभावस्तत्त्वतो,ऽन्ये तु भेदास्त्वौपाधिका इति । प्राहुर्जयन्तभट्टाद्याः, नव्यनैयायिकाः पुनः ॥ संसर्गाभावतादात्म्याभावभेदाद्द्विधा विदुः । प्रागभावादिभेदेन प्रथमस्त्रिविधो मतः ॥ अजातो घटसंबन्धः प्रागभावस्सदोच्यते । उत्पद्य स विनष्टश्चेत्प्रध्वंसाभावशब्दितः ॥ शशस्य त्वविषाणित्वं विद्यते सार्वकालिकम् । सोऽत्यन्ताभाव इत्येवं आद्यस्यैव विधा त्रिधा ॥ अन्यसंबन्धिताऽन्यत्र त्रिष्वप्येषु निषिध्यते । संसर्गाभावशब्देन त्रितयं व्यपदिश्यते ॥ अन्यस्मिन्नन्यतादात्म्यनिषेधस्स्यादनन्तरः । स चेतरेतराभावस्तादात्म्याभावशब्दितः ॥ यद्यभावोऽधिकरणं धीर्वा कालोऽथवा भवेत् । एकस्यानन्तता रूपाद्यभावाग्रहणं तु वा ॥ 4 स्थितो नव्यपरिष्कारः, कापिलानां मते पुनः । परिणामविशेषाख्यादन्यः कैवल्यलक्षणात् ॥
भूतलादेर्घटाभावो नाम कश्चन नेष्यते । परिणामस्वभावा हि भावास्सर्वे प्रतिक्षणम् ॥ द्रव्यात्मना तु सर्वस्य नित्यता बहुसम्मता । अतो विरोधप्रवादो ह्यत्यन्तप्रागभावयोः ॥ प्राक्प्रध्वंसाभिधाभावौ नात्यन्ताभावतः परौ । आधारेऽपि तयोस्सोऽपि वर्तते न विरुध्यते ॥ यद्वा निराश्रयौ स्यातां यदि भिन्नौ ततो मतौ । इति वादीन्द्रसिद्धान्तं तार्किका नानुमन्वते ॥ 5 व्यतिरेकोऽतिरेकश्च कैश्चिद्भेदो द्विधेष्यते । अन्त्योऽसाधारणो धर्मः धर्मो धर्म्यपि वा परः ॥ जीवो न व्यतिरिक्तोऽपित्वातिरिक्तो महेशितुः । इति सिद्धान्तभेदोऽसौ तत्रोदाहरणं मतम् ॥ भेदेतरेतराभावप्रभेदं केचिदास्थिताः । भेदो विशेषः व्यक्तिस्स्यात् अन्त्यः सामान्यमुच्यते ॥ अपोह एव सामान्यं सौत्रान्तिकविनिश्चितम् । स्वलक्षणा विशेषास्स्युः जातिव्यक्ती इमे मते ॥ स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥ पटरूपं घटे नास्ति घटरूपं पटे नहि । इति देशान्तराभावः अन्योन्याभाव उच्यते ॥ M.R. 34
266 मानमेयरहस्यश्लोकवार्तिके इति भास्करसिद्धान्तः प्रायस्सौत्रान्तिकानुगः । जातिर्भेदश्च संस्थानं त्रयमेतद्विलक्षणम् ॥ इति तार्किकनिष्कर्षोऽनर्थान्तरमिदं त्रयम् । इति रामानुजीयानां सिद्धान्तः प्रविविच्यते ॥ केचिद्धिङ्कुर्वते भेदं मानमेयाद्यसंभवात् । भेदो द्विधा स्यात् सादिश्चानादिश्चेत्यपि तन्मतः अनित्यमुभयं ध्वंसप्रतियोगीति कीर्त्यते । परे प्रतिब्रुवन्त्येतान् स्वप्रवृत्तिविरोधतः ॥ अपोहवादिनस्सर्वोऽप्यभावे पर्यवस्यति । भावान्तराभाववादे विपरीता ततो गतिः ॥ कैवल्याभाववादे तु पर्यायेण हि तुच्छता । अतिरिक्ताभाववादः कैश्चित्तस्मात्समाश्रितः ॥ कारणत्वमभावस्य भाट्टैः नाभ्युपगम्यते । भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः । इत्यभ्युपगमान्न्यायविद्भिश्शक्तिर्निरस्यते ॥ प्रभाकरगुरुः प्रायः न्यायसिद्धान्तवर्त्मगः । अभावतत्त्वमीमांसा विदुषामपि दुर्गमा ॥ 6 अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् । युक्तं नाम प्रमाणस्य तदेवत्त्वातिदुर्लभम् ॥
अभाववादः 267
अभावो निस्स्वभावस्स्यात् तुच्छं चाळीकमुच्यते । न कार्यं कारणं मेयः मानं वाच्यश्च नेष्यते ॥ जगतो मिश्ररूपत्वं स्यादभावो न चेदिह । इत्यादि यद्वार्तिकोक्तं तत्राहुरिदमुत्तरम् ॥ भावो भावादिवान्यस्मादभावांशोऽप्यसौ मिथः । असंकीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ॥ अन्योन्यमप्यभावानां यद्यसंकीर्णता स्वतः । भावैः किमपराद्धं वा परतश्चेत्कुतो नु सा ॥ भावेभ्यो यद्युपेयेत भवेदन्योन्यसंश्रयम् । अभावान्तरजन्या चेत् अनवस्था दुरुत्तरा ॥ नन्वभावप्रतिक्षेपे नञः किं वाच्यमुच्यते । नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥ बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः । विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥ ननुचानेन मार्गेण यद्यभावो निरस्यते । एकादशप्रकारैषाऽनुपलब्धिः क्व गच्छतु ॥ सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते । सा त्वसद्व्यवहारस्य हेतुः नाभावसंविदः ॥ स्वभावहेतावन्तस्स्था एता अनुपलब्धयः । स चासद्व्यवहारः तद्योग्यताऽत्र विवक्षिता ॥
268 मानमेयरहस्यश्लोकवार्तिके सैव ह्यनुपलब्धिस्स्यात् एकता हेतुसाध्ययोः । नन्वभावानभ्युपगमेऽनुपलब्धिश्च कीदृशी ॥ इयमेषा प्रतीषेधपर्युदस्तान्यशेमुषी । वस्त्वन्तरोपलब्धिश्च स्वसंवेद्येति वर्ण्यते ॥ नातोऽन्यानुपलब्धेश्चापेक्षयाऽप्यनवस्थितिः । विशेषणीया दृश्यत्वेनैवेत्यपि च कथ्यते ॥ नातोऽसद्व्यवहारस्स्यात् अदृष्टादाविति स्थितम् घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् ॥ असत्त्वव्यवहारो हि सिद्ध्यत्यनुपलब्धितः । एकान्तानुपलब्धेषु विहायःकुसुमादिषु ॥ असत्त्वधीर्न दृश्यत्वयोग्यताऽनवधारणात् । न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥ तत्रापित्वपिशाचोऽयं चैत्र इत्येवमादिषु । तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते ॥ पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः । ताद्रूप्यनिश्चये तस्य किंफलं तद्विशेषणम् ॥ इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः । न भाववदभावाख्यं प्रमेयमवकल्पते ॥ इति सौगतसिद्धान्तं प्रत्यवस्थातुमब्रुवन् । विलक्षणं प्रमाणं च प्रमेयं च कुमारिलाः ॥
अभाववादः 269 7 अत्र नैयायिकाः प्राहुर्घटोऽस्तीहेतिबुद्धिवत् । इह नास्तीतिबुद्धेरप्यस्ति बोध्यं न वोभयम् ॥ सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः । कण्टकाभावमालम्ब्य पदं पथि निधीयते ॥ प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः । व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्तनम् ॥ इहाभावप्रतिष्ठानव्यवहारपरंपराम् । पश्यन्नभावं को नाम निह्नुवीत सचेतनः ॥ तदुत्पादस्वभावे हि न किंचिन्मुद्गरादिना । अतदुत्पादकत्वेऽपि न किंचिन्मुद्गरादिना ॥ मुद्गरोपनिपाताच्च यदुत्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ॥ नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते । घञा किमपराधं वा किं वाऽप्युपकृतं ल्युटा ॥ तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् । न ह्यसद्व्यवहाराय कल्पन्तेऽनुपलब्धयः ॥ न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथग्भावाख्यममूषामुपपादितम् ॥ कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता । स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥
270 मानमेयरहस्यश्लोकवार्तिके जरत्तार्किकसिद्धान्ते न पदार्थान्तरं त्वसौ । अभाव इति विद्वांसः केचिदत्रोल्लिखन्त्यपि ॥ मानं तु तत्र काणादसूत्रे नोददिशञ्च तम् । द्रव्यादिसमवायान्ताः पदार्था एव कीर्तिताः ॥ 8 यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते । प्रमादेनामुना तेषां अनिष्टमिदमुद्भवेत् ॥ नचाप्रतीतिमात्रेण तदभावनिबन्धनाः । व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ॥ खपुष्पस्य पिशाचस्य मृदन्तरितवारिणः । नखल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥ सर्वदाऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् । विशेष्यते मृदन्तस्स्थसलिलानुपलब्धितः ॥ आगमाद्युक्तितश्चापि सत्त्वसंभावनां गतः । सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥ अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥ मुद्गरादेश्च किंकार्यं, कपालपटलीति चेत् । घटस्तर्ह्यविनष्टत्वात् स्वकार्यं न करोति किम् ॥ तदानीमेव दृष्टस्य स्थिरस्यामुष्य किंङ्कृतम् । सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥
अभाववादः स्वप्रकाशा च नास्तीतिसंवित्तिर्भवतां मते । न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥ विकल्पविषयाश्शब्दा यथा शौद्धोदनेर्गृहे । गीयन्ते भवता नैवमिति नञ्द्वयमुख्यताम् ॥ प्रसिद्धिश्च परित्यक्ता नचाभावः पराकृतः । उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥ अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते । महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥ इति वार्तिककारीययुक्तिभिः न्यायमञ्जरी । तत्प्राभाकरसिद्धान्तपरिहासेन शोभते ॥ 9 भावान्तराभाववादः कुमारिलपरिष्कृतः । इति प्रत्यक्षमेवैतत् श्रूयतां श्लोकवार्तिकम् ॥ प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि॥ स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ॥ भावाभावात्मकं वस्तु तदेकमिति यद्यपि । रूपादिंवत्स्वतोऽस्त्येव भेदः नात्यन्तमेकता ॥ तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानं अभावालम्बनं च तत् ॥
272 मानमेयरहस्यश्लोकवार्तिके भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् । भ्रान्तिश्चाभावधीश्चापिचेत्थं सालम्बना मता ॥ इत्यभावपरिच्छेदे निरालम्बननिह्नवे । भावान्तराभाववादः कुमारिलमुखोद्गतः ॥ इत्थं प्रमेयभागोऽयं प्रथमस्समगृह्यत । लक्ष्मीपुरंश्रीनिवासविपश्चिच्चक्रवर्तिना ॥ श्रीः. प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्धिरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रमेयकाण्डः प्रथमः समाप्तः.
अथ द्वितीयः प्रमाणकाण्डः। (55) प्रमाणपरीक्षा. 1 अथ प्रमाणवादोऽयं संक्षेपेण निरूप्यते । तदधीनास्सर्वसिद्धीराहुस्सर्वेऽपि वादिनः॥ मानं मेयं मितिर्मातेत्येतदर्थचतुष्टयम् । दुर्निरूपं ततःशून्यमित्याहुर्मध्यमागमाः॥ बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः॥ पदार्थानां स्वतो रूपं न किंचिदद्यवतिष्ठते । यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥ इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथाऽर्थाश्चिन्त्यन्ते भविष्यन्ति तथातथा ॥ कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥ नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ M.R. 35
274 मानमेयरहस्यश्लोकवार्तिके 2 इत्येवमादीन् सिद्धान्तान् वदन्तीति पुरोदितम् । तत्र विप्रतिपन्नानां युक्तिर्नयविदामियम् ॥ सर्वथा सदुपायानां वादमार्गः प्रवर्तते । माने विप्रतिपन्नानां वादमार्गो निरुध्यते ॥ न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः । न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥ प्रमाणस्य प्रमाणेन बाधः स्वव्याहतेर्हतः । अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥ अहं सत्यं वदामीति स्वोक्तिः स्वपररक्षिणी । न कदाचिद्वदामीति वादस्तु स्वोक्तिबाधितः ॥ मानस्थापकमानस्य मानसंक्षोभकस्य च । गतिरेवमिति प्रेक्ष्य गहनां कुहनां त्यजेत् ॥ अथ वैतण्डिकस्यैषा सर्वसंक्षोभकस्य च । इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्ति वा न वा ॥ नास्तिचेन्नैव दूष्योऽन्योऽप्यस्तिचेत्तत्प्रसज्यते । इष्टानिष्टाविवेकस्तु तिरश्चामपि दुर्वचः ॥ 3 लोके प्रमेयव्यत्यासः प्रमाणव्यत्ययागतः । अतः तत्त्वप्रबोधाय प्रवृत्ता मानचिन्तना ॥ प्रत्यक्षितसमस्तार्थैर्योगीन्द्रैरपि लङ्घ्यते । प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥
प्रमाणपरीक्षा 27 अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् । अविपर्याससंसिद्ध्यै शोध्यते मानपद्धतिः ॥ सर्वोपजीव्यमध्यक्षं मानं प्रथममिष्यते । तन्मूलमनुमानं स्यात् आगमस्तूभयाश्रितः ॥ उपमानादिकं मानं ततस्त्रितयमूलकम् । सर्वं त्वनन्यथासिद्धमूलमाश्रित्य वर्तते ॥ मानाधीना मेयसिद्धिः मानं मेयमपीष्यते । उपधेयस्य सांकर्येऽप्युपाधेर्न हि संकरः ॥ आत्माश्रयादिदोषस्तु व्यक्तिभेदादपोद्यते । इन्द्रियाणां च लिङ्गानां प्रभेदस्सर्वसम्मतः ॥ स्वत एवहि मानानां सिद्धिर्वेष्टा मनीषिभिः । धीरस्तीति मतौ शब्दशब्दे लक्षणलक्षणे ॥ इष्टः स्वपरनिर्वाहस्सर्वमित्यादिधीष्वपि । पूर्वपूर्वोपदिष्टाद्वा मानसिद्धिर्हि लक्षणात् ॥ ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥ 4 व्यापकोऽसाधारणो वा धर्मो लक्षणमुच्यते । तदुपस्थापनेनाप्तवाक्यं ह्यापिच लक्षणम् ॥ व्यवहारव्यवस्थैव लक्षणस्य प्रयोजनम् । असाधारणधर्मो हि भवेद्व्यावृत्तिलक्षणः ॥
276 मानमेयरहस्यश्लोकवार्तिके लक्षणादधिके भेदे क्ववाऽतीतत्वसंभवः । तस्यैव तत्त्वे किं केन किमर्थं साधनं भवेत् ॥ व्यावृत्तेश्च फलत्वे तु तदेवमवगम्यताम् । शरीरं पार्थिवं गन्धवत्त्वात् घटपटादिवत् ॥ शरीरमाप्यं न भवेत् गन्धादित्येवमादिषु । शरीरादेः पार्थिवत्वसंशयादेर्विशोधनम् ॥ एवं तदात्मना शङ्काविषयेष्वपि वस्तुषु । तल्लक्षणस्य राहित्यात्तदन्यत्वं हि सिद्धयति ॥ तस्यापि तेभ्यो वस्तुभ्यो व्यतिरेकः प्रसिद्धयति लक्षणादेव तत्सिद्धेः व्यावृत्तिः फलमुच्यते ॥ तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् । लक्षणं, न प्रमाणात्मेत्येष लक्षणनिर्णयः ॥ अतो न मानताऽन्येषां केवलव्यतिरेकिणः । द्व्यंशोऽवरोपितो भारः तेषां हैतुकभञ्जने ॥ इति न्यायपरिशुद्धिकृतां लक्षणनिर्णयः । भावान्तराभावविदां सर्वेषामेष सम्मतः ॥ (56) प्रमाणस्वरूपम्. 1 प्रमाणशब्दव्युत्पत्तिः स्याद्भावे करणेऽपिच । प्रमा प्रमाणमित्येके विदुस्तत्करणं परे ॥