मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 306, कुल 672 में से
संदर्भ में पढ़ें264 मानमेयरहस्यश्लोकवार्तिके शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोत्यन्ताभाव उच्यते ॥ 3 अपेक्षाऽभाव एवासौ यस्स्यात्सामयिको मतः । उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ॥ अभावस्तत्त्वतो,ऽन्ये तु भेदास्त्वौपाधिका इति । प्राहुर्जयन्तभट्टाद्याः, नव्यनैयायिकाः पुनः ॥ संसर्गाभावतादात्म्याभावभेदाद्द्विधा विदुः । प्रागभावादिभेदेन प्रथमस्त्रिविधो मतः ॥ अजातो घटसंबन्धः प्रागभावस्सदोच्यते । उत्पद्य स विनष्टश्चेत्प्रध्वंसाभावशब्दितः ॥ शशस्य त्वविषाणित्वं विद्यते सार्वकालिकम् । सोऽत्यन्ताभाव इत्येवं आद्यस्यैव विधा त्रिधा ॥ अन्यसंबन्धिताऽन्यत्र त्रिष्वप्येषु निषिध्यते । संसर्गाभावशब्देन त्रितयं व्यपदिश्यते ॥ अन्यस्मिन्नन्यतादात्म्यनिषेधस्स्यादनन्तरः । स चेतरेतराभावस्तादात्म्याभावशब्दितः ॥ यद्यभावोऽधिकरणं धीर्वा कालोऽथवा भवेत् । एकस्यानन्तता रूपाद्यभावाग्रहणं तु वा ॥ 4 स्थितो नव्यपरिष्कारः, कापिलानां मते पुनः । परिणामविशेषाख्यादन्यः कैवल्यलक्षणात् ॥