मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 305, कुल 672 में से
संदर्भ में पढ़ेंअभाववादः 26 दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः । दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥ अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी । व्यर्थस्त्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः अभाववादिनो यत्स्यादभावज्ञानकारणम् । तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥ घटादिव्यवहाराणामपि तज्ज्ञानकारणात् । संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥ जगतो मिश्ररूपत्वं स्यादभावो नचेदिह । क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥ शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि । अप्सु गन्धो रसश्चाग्नौ वाय्वादावपि ते गुणाः ॥ प्रागभावादिभेदेन नाभावो भिद्यते यदि । नच स्याद्व्यवहारोऽयं कारणादिविभागतः ॥ नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता । मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥ स चतुर्विध इत्युक्तः प्रागभावादिभेदतः । अपेक्षाभावसामर्थ्याभावाभ्यां षड्विदुः परे ॥ क्षीरे दध्यादि यन्नास्ति प्रागभावस्स उच्यते । गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥