मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 311, कुल 672 में से
संदर्भ में पढ़ेंअभाववादः 269 7 अत्र नैयायिकाः प्राहुर्घटोऽस्तीहेतिबुद्धिवत् । इह नास्तीतिबुद्धेरप्यस्ति बोध्यं न वोभयम् ॥ सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः । कण्टकाभावमालम्ब्य पदं पथि निधीयते ॥ प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः । व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्तनम् ॥ इहाभावप्रतिष्ठानव्यवहारपरंपराम् । पश्यन्नभावं को नाम निह्नुवीत सचेतनः ॥ तदुत्पादस्वभावे हि न किंचिन्मुद्गरादिना । अतदुत्पादकत्वेऽपि न किंचिन्मुद्गरादिना ॥ मुद्गरोपनिपाताच्च यदुत्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ॥ नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते । घञा किमपराधं वा किं वाऽप्युपकृतं ल्युटा ॥ तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् । न ह्यसद्व्यवहाराय कल्पन्तेऽनुपलब्धयः ॥ न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथग्भावाख्यममूषामुपपादितम् ॥ कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता । स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥