मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 310, कुल 672 में से
संदर्भ में पढ़ें268 मानमेयरहस्यश्लोकवार्तिके सैव ह्यनुपलब्धिस्स्यात् एकता हेतुसाध्ययोः । नन्वभावानभ्युपगमेऽनुपलब्धिश्च कीदृशी ॥ इयमेषा प्रतीषेधपर्युदस्तान्यशेमुषी । वस्त्वन्तरोपलब्धिश्च स्वसंवेद्येति वर्ण्यते ॥ नातोऽन्यानुपलब्धेश्चापेक्षयाऽप्यनवस्थितिः । विशेषणीया दृश्यत्वेनैवेत्यपि च कथ्यते ॥ नातोऽसद्व्यवहारस्स्यात् अदृष्टादाविति स्थितम् घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् ॥ असत्त्वव्यवहारो हि सिद्ध्यत्यनुपलब्धितः । एकान्तानुपलब्धेषु विहायःकुसुमादिषु ॥ असत्त्वधीर्न दृश्यत्वयोग्यताऽनवधारणात् । न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥ तत्रापित्वपिशाचोऽयं चैत्र इत्येवमादिषु । तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते ॥ पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः । ताद्रूप्यनिश्चये तस्य किंफलं तद्विशेषणम् ॥ इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः । न भाववदभावाख्यं प्रमेयमवकल्पते ॥ इति सौगतसिद्धान्तं प्रत्यवस्थातुमब्रुवन् । विलक्षणं प्रमाणं च प्रमेयं च कुमारिलाः ॥