मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 312, कुल 672 में से
संदर्भ में पढ़ें270 मानमेयरहस्यश्लोकवार्तिके जरत्तार्किकसिद्धान्ते न पदार्थान्तरं त्वसौ । अभाव इति विद्वांसः केचिदत्रोल्लिखन्त्यपि ॥ मानं तु तत्र काणादसूत्रे नोददिशञ्च तम् । द्रव्यादिसमवायान्ताः पदार्था एव कीर्तिताः ॥ 8 यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते । प्रमादेनामुना तेषां अनिष्टमिदमुद्भवेत् ॥ नचाप्रतीतिमात्रेण तदभावनिबन्धनाः । व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ॥ खपुष्पस्य पिशाचस्य मृदन्तरितवारिणः । नखल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥ सर्वदाऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् । विशेष्यते मृदन्तस्स्थसलिलानुपलब्धितः ॥ आगमाद्युक्तितश्चापि सत्त्वसंभावनां गतः । सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥ अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥ मुद्गरादेश्च किंकार्यं, कपालपटलीति चेत् । घटस्तर्ह्यविनष्टत्वात् स्वकार्यं न करोति किम् ॥ तदानीमेव दृष्टस्य स्थिरस्यामुष्य किंङ्कृतम् । सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥