भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 313, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 313

अभाववादः स्वप्रकाशा च नास्तीतिसंवित्तिर्भवतां मते । न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥ विकल्पविषयाश्शब्दा यथा शौद्धोदनेर्गृहे । गीयन्ते भवता नैवमिति नञ्द्वयमुख्यताम् ॥ प्रसिद्धिश्च परित्यक्ता नचाभावः पराकृतः । उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥ अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते । महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥ इति वार्तिककारीययुक्तिभिः न्यायमञ्जरी । तत्प्राभाकरसिद्धान्तपरिहासेन शोभते ॥ 9 भावान्तराभाववादः कुमारिलपरिष्कृतः । इति प्रत्यक्षमेवैतत् श्रूयतां श्लोकवार्तिकम् ॥ प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि॥ स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ॥ भावाभावात्मकं वस्तु तदेकमिति यद्यपि । रूपादिंवत्स्वतोऽस्त्येव भेदः नात्यन्तमेकता ॥ तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानं अभावालम्बनं च तत् ॥