मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 308, कुल 672 में से
संदर्भ में पढ़ें266 मानमेयरहस्यश्लोकवार्तिके इति भास्करसिद्धान्तः प्रायस्सौत्रान्तिकानुगः । जातिर्भेदश्च संस्थानं त्रयमेतद्विलक्षणम् ॥ इति तार्किकनिष्कर्षोऽनर्थान्तरमिदं त्रयम् । इति रामानुजीयानां सिद्धान्तः प्रविविच्यते ॥ केचिद्धिङ्कुर्वते भेदं मानमेयाद्यसंभवात् । भेदो द्विधा स्यात् सादिश्चानादिश्चेत्यपि तन्मतः अनित्यमुभयं ध्वंसप्रतियोगीति कीर्त्यते । परे प्रतिब्रुवन्त्येतान् स्वप्रवृत्तिविरोधतः ॥ अपोहवादिनस्सर्वोऽप्यभावे पर्यवस्यति । भावान्तराभाववादे विपरीता ततो गतिः ॥ कैवल्याभाववादे तु पर्यायेण हि तुच्छता । अतिरिक्ताभाववादः कैश्चित्तस्मात्समाश्रितः ॥ कारणत्वमभावस्य भाट्टैः नाभ्युपगम्यते । भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः । इत्यभ्युपगमान्न्यायविद्भिश्शक्तिर्निरस्यते ॥ प्रभाकरगुरुः प्रायः न्यायसिद्धान्तवर्त्मगः । अभावतत्त्वमीमांसा विदुषामपि दुर्गमा ॥ 6 अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् । युक्तं नाम प्रमाणस्य तदेवत्त्वातिदुर्लभम् ॥