मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 317, कुल 672 में से
संदर्भ में पढ़ेंप्रमाणपरीक्षा 27 अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् । अविपर्याससंसिद्ध्यै शोध्यते मानपद्धतिः ॥ सर्वोपजीव्यमध्यक्षं मानं प्रथममिष्यते । तन्मूलमनुमानं स्यात् आगमस्तूभयाश्रितः ॥ उपमानादिकं मानं ततस्त्रितयमूलकम् । सर्वं त्वनन्यथासिद्धमूलमाश्रित्य वर्तते ॥ मानाधीना मेयसिद्धिः मानं मेयमपीष्यते । उपधेयस्य सांकर्येऽप्युपाधेर्न हि संकरः ॥ आत्माश्रयादिदोषस्तु व्यक्तिभेदादपोद्यते । इन्द्रियाणां च लिङ्गानां प्रभेदस्सर्वसम्मतः ॥ स्वत एवहि मानानां सिद्धिर्वेष्टा मनीषिभिः । धीरस्तीति मतौ शब्दशब्दे लक्षणलक्षणे ॥ इष्टः स्वपरनिर्वाहस्सर्वमित्यादिधीष्वपि । पूर्वपूर्वोपदिष्टाद्वा मानसिद्धिर्हि लक्षणात् ॥ ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥ 4 व्यापकोऽसाधारणो वा धर्मो लक्षणमुच्यते । तदुपस्थापनेनाप्तवाक्यं ह्यापिच लक्षणम् ॥ व्यवहारव्यवस्थैव लक्षणस्य प्रयोजनम् । असाधारणधर्मो हि भवेद्व्यावृत्तिलक्षणः ॥