मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 318, कुल 672 में से
संदर्भ में पढ़ें276 मानमेयरहस्यश्लोकवार्तिके लक्षणादधिके भेदे क्ववाऽतीतत्वसंभवः । तस्यैव तत्त्वे किं केन किमर्थं साधनं भवेत् ॥ व्यावृत्तेश्च फलत्वे तु तदेवमवगम्यताम् । शरीरं पार्थिवं गन्धवत्त्वात् घटपटादिवत् ॥ शरीरमाप्यं न भवेत् गन्धादित्येवमादिषु । शरीरादेः पार्थिवत्वसंशयादेर्विशोधनम् ॥ एवं तदात्मना शङ्काविषयेष्वपि वस्तुषु । तल्लक्षणस्य राहित्यात्तदन्यत्वं हि सिद्धयति ॥ तस्यापि तेभ्यो वस्तुभ्यो व्यतिरेकः प्रसिद्धयति लक्षणादेव तत्सिद्धेः व्यावृत्तिः फलमुच्यते ॥ तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् । लक्षणं, न प्रमाणात्मेत्येष लक्षणनिर्णयः ॥ अतो न मानताऽन्येषां केवलव्यतिरेकिणः । द्व्यंशोऽवरोपितो भारः तेषां हैतुकभञ्जने ॥ इति न्यायपरिशुद्धिकृतां लक्षणनिर्णयः । भावान्तराभावविदां सर्वेषामेष सम्मतः ॥ (56) प्रमाणस्वरूपम्. 1 प्रमाणशब्दव्युत्पत्तिः स्याद्भावे करणेऽपिच । प्रमा प्रमाणमित्येके विदुस्तत्करणं परे ॥