भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 319, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 319

प्रमाणस्वरूपम् 27 तदन्यतरदित्यन्ये यथासंभवमिष्यते । करणस्य प्रमाणत्वे प्रमायाः फलता मता ॥ प्रमायास्तु प्रमाणत्वे व्यवहारस्य सेष्यते । व्यवहारो ह्युपादानोपेक्षाहानधियो मताः ॥ प्रमाकरणमेवात्र प्रमाणं बहवो विदुः । प्रमाविकल्पतश्चैतत्करणं च विकल्प्यते ॥ 2 वैभाषिकैः पुनस्त्वर्थाधिगतिः फलमिष्यते । प्रमाणमर्थसारूप्यं प्रमागतमिदं यथा ॥ अर्थेन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ यथोत्पत्तावपि ज्ञानस्यास्ति प्रापकलक्षणः । व्यापारोऽवश्यवक्तव्यः पुमान्येन प्रवर्तितः ॥ अर्थोऽपि स्यात्प्रापितश्च सैषाऽर्थाधिगतिर्मता । अर्थसारूप्यात्मकस्य प्रमाणस्य फलं हि सा ॥ 3 स्वसंवित्तिफलत्वं तु वदतां मतमुच्यते । प्राभाकरास्तु विषयसंवित्तिफलवादिनः ॥ विषयाकार एवास्य प्रमाणं तेन मीयते । स्वसंवित्तिः फलं चास्य तद्भूये ह्यर्थनिश्चयः ॥ इति सौत्रान्तिकमतं योगाचारमतं पुनः । यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ॥