मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 320, कुल 672 में से
संदर्भ में पढ़ें278 मानमेयरहस्यश्लोकवार्तिके 4 ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् । मतद्वयनिरासांशो वार्तिके त्वित्थमुच्यते ॥ विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् । साध्यसाधनयोः भेदः लौकिकः तेन बाधितः ॥ स्वाकारश्च स्वसंवित्तिं मुक्त्वा नान्यः प्रतीयते । प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥ स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते । प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ॥ अविसंवादनमिति केचित् बौद्धाः प्रचक्षते । इत्यतो विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ॥ 5 बौद्धाः प्रमाणफलयोरत्यन्ताभेदवादिनः । यौगाः प्रमाणफलयोरत्यन्तं भेदवादिनः ॥ आर्हतायाः पुनर्भेदाभेदवादिन ईरिताः । आत्मनः परिणामोऽयं ज्ञानमित्यभिधीयते ॥ विशेषस्सहजो ह्येष गुण इत्यार्हतं मतम् । प्रमाणत्वेन परिणम्यात्मा फलतयाऽपिच ॥ स्यादन्यथा स्वपरयोः प्रमाणफलविप्लवः । विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ॥ प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् । इति स्याद्वादिसिद्धान्तः शिष्टमन्यत्र विस्तृतम् ॥