मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 321, कुल 672 में से
संदर्भ में पढ़ेंप्रमाणस्वरूपम् २७ ६ नैयायिकानां सिद्धान्ते प्रमाणमपि चेश्वरः । तत्साधनादाश्रयाच्चाप्यतिरिक्तत्वमिश्रितम् ॥ प्रमाव्याप्तं प्रमाणं स्यात् साधनं त्विन्द्रियादिकम् आश्रयस्त्वात्मवस्तु स्यात् तयोः प्रामाण्यनिर्णयः। मितिस्सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ७ अथ शाबरसिद्धान्ते प्रमाणमिदमुच्यते । या बुद्धिर्जायते पुंसः प्रमाणं सैव कथ्यते ॥ बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥ इति शाक्यविकल्पस्य भङ्गार्थमिदमुच्यते । पुमान् विक्रियते चैवेतीष्यते बुद्धिजन्मना ॥ न तद्विकारमात्रेण वस्तुनो नाशसंभवः । कुण्डलादिविकारेऽपि सुवर्णादिपदार्थवत् ॥ उपादानदशाभेदः वस्तुनो जननक्रिया । यस्य चानन्तरं सत्ता कार्यस्येत्यवगम्यते ॥ कारणे समवायस्तु कार्यस्यौलूक्यसम्मतः । स नित्योऽतीन्द्रियश्चाक्षानधीन इति दूषणम् ॥ व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ॥