मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 322, कुल 672 में से
संदर्भ में पढ़ें280 मानमेयरहस्यश्लोकवार्तिके बुद्धेर्जन्मैव विषये व्यापार इति कीर्त्यते । तदेवच प्रमारूपं तद्वती करणं च धीः ॥ ततश्च जायमाना सा प्रमाणं बुद्धिरिष्यते । अतश्च बुद्धिर्जन्मेति सूत्रयामास जैमिनिः ॥ ४ सिद्धान्तस्यास्य विवृतिः कुमारिलमता यथा । ज्ञानं नाम क्रिया काचित्पुंसो व्यापारलक्षणा ॥ चितिशक्तेः कार्यभूता विकारः सूक्ष्म इष्यते । फलानुमेया तस्याश्च फलं स्यादर्थदृष्टता ॥ तामावरणभङ्गोक्त्योपचरन्ति बुधाः परे । धात्वर्थफलशालित्वं कर्मत्वमिति शिक्षिताः ॥ कारकाणां मिथो योगः स्यात्क्रियागर्भ एवहि । स्थाल्यादीनि हि सिद्धानि साध्यं धात्वर्थलक्षणम् ॥ पाकमेकं पुरस्कृत्य संसृज्यन्ते यथा मिथः । आत्मेन्द्रियमनोवस्तुसन्निकर्षादयस्तथा ॥ कुर्वन्ति कंचिद्व्यापारं सुसूक्ष्मं ज्ञानलक्षणम् । इति कौमारिलमते ज्ञानतत्त्वं सुनिश्चितम् ॥ शब्दाधिकरणे चैतच्छ्रूयते श्लोकवार्तिकम् । बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः ॥ नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः । व्याख्यात्रा विषयार्थोऽत्र सूक्ष्मः व्यापार ईरितः ॥