मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 303, कुल 672 में से
संदर्भ में पढ़ेंसम्बन्धवादः 26 यच्च वस्तुपरिच्छेदशून्यं ब्रह्माभिधीयते । तत्स्यादिदमिदं नेति निर्देशानर्हतात्मकम् ॥ तच्च स्वरूपाभेदात्स्यादपृथक्सिद्धितोऽपिवा । जडाजडविभागश्च प्रमाणपरिनिष्ठितः ॥ ततोऽपृथक्सिद्धसत्ताकत्वात्तत्स्यादिति स्थितम् । तच्च द्वैधैव घटते न प्रकारान्तरस्थितिः ॥ तत्र चैतत्सत्त्वभिन्नसत्त्वशून्यत्वतोऽथवा । यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥ इति स्मृत्यैतदायत्तसत्ताकत्वाद्भेवेद्वापि । तत्राद्यं तु विशेष्याख्यसत्ताशून्यत्वतोऽथच ॥ व्यतिरिक्तस्वरूपस्य विशेषणदलस्य वा । अभावात्तत्राद्यपक्षः बाह्याद्वैताभ्युपागतः ॥ अनन्तरस्तु वेदान्ताद्वैताभ्युपगतो मतः । विशिष्टाद्वैतसिद्धान्ते तत्सत्तायत्तसत्तया ॥ अपृथक्सिद्धिरुरीकृता तत्र द्वयी गतिः । ब्रह्मसत्त्वेनैव सत्त्वं प्रपञ्चस्योपपद्यते ॥ अतिरिक्ता नास्ति सत्ता गुणजातिनयादिति । इयमेका रीतिरन्या त्ववधानेन बुद्धयताम् ॥ प्रपञ्चे चापि सत्ताऽस्ति प्रमाणपरिनिष्ठिता । सा ब्रह्मसत्तायत्ता स्यादित्येकेषां विनिर्णयः ॥