मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 335, कुल 672 में से
संदर्भ में पढ़ेंप्रमाविचारः 29 नन्वेवं संशयत्वाद्यमप्रामाण्यमपि स्वतः । शक्यं ग्रहीतुं स्वेनानुव्यवसायेन वेति चेत् ॥ विपर्ययस्वरूपं यत्त्वप्रामाण्यं न तत्तथा । यद्गृह्यमाणवैरूप्यं स्वेन स्वग्राहिणाऽथवा ॥ तस्यादौ ग्रहणायोगे न विवादोऽत्र वादिनाम् । इममंशमुपादाय स्वतःप्रामाण्यसंभ्रमः ॥ (59) प्रमाविचारः. 1 एवमस्य स्वतस्त्वस्य विशेषांशो विचारितः । अथ प्रमापदार्थस्य विकल्पोऽयं विमृश्यताम् ॥ ज्ञानं प्रमेति सिद्धान्तस्स्यान्निरालम्बवादिनाम् । आत्मख्यातिं विदुः स्वप्ने भ्रमे चापि भिदा ततः॥ अविसंवादिविज्ञानं प्रमेत्याहुरथापरे । वैभाषिकादयः, भ्रान्तिर्निरधिष्ठानधीर्मता ॥ 2 अन्यथाख्यातिमिच्छन्तस्त्वनिच्छन्तस्स्मृतिं प्रमाम् नैयायिकादयस्सम्यगनुभूतिं प्रमां विदुः ॥ केचित्तूभयमिच्छन्तः यथार्थां तु धियं प्रमाम् । व्यवहारस्यानुगुणं ज्ञानमन्ये प्रमां विदुः ॥ तथाऽऽर्हताः पुनरभिमतानभिमतार्थयोः । परिग्रहपरित्यागक्षमं ज्ञानं प्रमां विदुः ॥