मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 334, कुल 672 में से
संदर्भ में पढ़ें292 मानमेयरहस्यश्लोकवार्तिके यथोपलभ्यमानेऽपि कलधौतेऽस्ति संशयः । यथेदं रजतं वाऽथ पूर्ववच्छुक्तिरेव वा ॥ तथाऽत्र गृह्यमाणेऽपि प्रामाण्ये किमियं प्रमा । उत पूर्वभ्रमवदप्रमा वेति हि संशयः ॥ अथात्र संदेहसहस्वतोग्रहणतः फलम् । किंवा स्यान्निश्चयस्त्वन्याधीन एवेति चेच्छृणु ।) शक्यं नियन्तुं ग्रहणमिह नास्मदपेक्षया । सिद्ध एवानुसर्तव्यः तत्प्रकारः परीक्षकैः ॥ 7 सोऽपि स्वतः कथं सिद्ध इति चेदवधार्यताम् । अस्ति स्वालम्बनं ज्ञानं प्रकाशयदिति स्फुटम् । ज्ञानान्तरानपेक्षं तत्स्वयमेव प्रकाशते । इतितावत्स्वप्रकाशवादिवेदान्तिसम्मतम् ॥ अस्वप्रकाशवादेऽपि व्यवसायो हि गृह्यते । प्रागनुव्यवसायेनासंशयात्मैव केवलम् ॥ स्मृत्यप्रामाण्यवादेऽपि स चापूर्वार्थगोचरः । अबाधितोऽविपर्यस्तः मतः स्मृतिविलक्षणः ॥ ततो यद्विषयत्वेन व्यवसायः प्रकाशते । परस्परपरिक्षोदात्पश्चादपि तथैव सः ॥ यत्तद्विषयतारूपं प्रामाण्यं व्यवतिष्ठते । आदावेव गृहीतं तत्स्वतः प्रामाण्यमुच्यते ॥