मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
292 मानमेयरहस्यश्लोकवार्तिके यथोपलभ्यमानेऽपि कलधौतेऽस्ति संशयः । यथेदं रजतं वाऽथ पूर्ववच्छुक्तिरेव वा ॥ तथाऽत्र गृह्यमाणेऽपि प्रामाण्ये किमियं प्रमा । उत पूर्वभ्रमवदप्रमा वेति हि संशयः ॥ अथात्र संदेहसहस्वतोग्रहणतः फलम् । किंवा स्यान्निश्चयस्त्वन्याधीन एवेति चेच्छृणु ।) शक्यं नियन्तुं ग्रहणमिह नास्मदपेक्षया । सिद्ध एवानुसर्तव्यः तत्प्रकारः परीक्षकैः ॥ 7 सोऽपि स्वतः कथं सिद्ध इति चेदवधार्यताम् । अस्ति स्वालम्बनं ज्ञानं प्रकाशयदिति स्फुटम् । ज्ञानान्तरानपेक्षं तत्स्वयमेव प्रकाशते । इतितावत्स्वप्रकाशवादिवेदान्तिसम्मतम् ॥ अस्वप्रकाशवादेऽपि व्यवसायो हि गृह्यते । प्रागनुव्यवसायेनासंशयात्मैव केवलम् ॥ स्मृत्यप्रामाण्यवादेऽपि स चापूर्वार्थगोचरः । अबाधितोऽविपर्यस्तः मतः स्मृतिविलक्षणः ॥ ततो यद्विषयत्वेन व्यवसायः प्रकाशते । परस्परपरिक्षोदात्पश्चादपि तथैव सः ॥ यत्तद्विषयतारूपं प्रामाण्यं व्यवतिष्ठते । आदावेव गृहीतं तत्स्वतः प्रामाण्यमुच्यते ॥
प्रमाविचारः 29 नन्वेवं संशयत्वाद्यमप्रामाण्यमपि स्वतः । शक्यं ग्रहीतुं स्वेनानुव्यवसायेन वेति चेत् ॥ विपर्ययस्वरूपं यत्त्वप्रामाण्यं न तत्तथा । यद्गृह्यमाणवैरूप्यं स्वेन स्वग्राहिणाऽथवा ॥ तस्यादौ ग्रहणायोगे न विवादोऽत्र वादिनाम् । इममंशमुपादाय स्वतःप्रामाण्यसंभ्रमः ॥ (59) प्रमाविचारः. 1 एवमस्य स्वतस्त्वस्य विशेषांशो विचारितः । अथ प्रमापदार्थस्य विकल्पोऽयं विमृश्यताम् ॥ ज्ञानं प्रमेति सिद्धान्तस्स्यान्निरालम्बवादिनाम् । आत्मख्यातिं विदुः स्वप्ने भ्रमे चापि भिदा ततः॥ अविसंवादिविज्ञानं प्रमेत्याहुरथापरे । वैभाषिकादयः, भ्रान्तिर्निरधिष्ठानधीर्मता ॥ 2 अन्यथाख्यातिमिच्छन्तस्त्वनिच्छन्तस्स्मृतिं प्रमाम् नैयायिकादयस्सम्यगनुभूतिं प्रमां विदुः ॥ केचित्तूभयमिच्छन्तः यथार्थां तु धियं प्रमाम् । व्यवहारस्यानुगुणं ज्ञानमन्ये प्रमां विदुः ॥ तथाऽऽर्हताः पुनरभिमतानभिमतार्थयोः । परिग्रहपरित्यागक्षमं ज्ञानं प्रमां विदुः ॥
294 मानमेयरहस्यश्लोकवार्तिके यथा बुहुदपक्ष्यादौ विसंवादस्त्वपक्रमात् । तथा मणिप्रभास्थाने संवादोऽन्यनिबन्धनः ॥ विषय कारतापन्नेन्द्रियवृत्त्यनुपातिनी । पुरुषेणोपरक्ता च बुद्धिवृत्तिः प्रमा मता ॥ पातञ्जलैः कापिलैश्च चेतनाशक्त्यनुग्रहः । पौरुषेयो बोध इति चिच्छायेत्यपि कीर्त्यते ॥ ३ अबाधितानधिगतवस्तुज्ञानं प्रमां विदुः । विपरीतख्यातिवादिकौमारिलमतानुगाः ॥ अनिच्छन्तोऽन्यथाख्यातिमनिच्छन्तः स्मृतिं प्रमाम् अनुभूतिं प्रमामाहुः गुरवोऽख्यातिवादिनः ॥ ४ स्वयं प्रकाशते ज्ञानं त्रिपुटीज्ञानवादिनाम् । मानसप्रत्यक्षवादः तार्किकैरुररीकृतः ॥ ज्ञानातीन्द्रियवादं तु कौमारिलमतं विदुः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः । इति वादो निराकारि ज्ञानातीन्द्रियवादिभिः ॥ क्षणान्तरविलम्बेन मानसाध्यक्षवादिभिः । स्वानुभूतिविरोधेन स्वप्रकाशत्ववादिभिः ॥ विज्ञानवादो निर्धूत इति वेदान्तपद्धतिः । तस्मात्सौगतशिक्षार्थं मतिजाड्यमिति स्थितम् ॥
भ्रमविचारः 295 एवं प्रमाप्रमाणानां प्रायः तत्त्वं विचारितम् । विशिष्य विस्तरः तत्तत्तीर्थिकैः प्रकटीकृतः ॥ (60) भ्रमविचारः. 1 अथ भ्रान्तिज्ञानतत्त्वं किंचिदत्रावधार्यताम् । आत्मख्यातिरसतख्यातिः अन्यथाख्यातिरित्यपि ॥ अख्यातिस्सदसद्भिन्नख्यातिस्सत्ख्यातिरित्यपि । शून्यख्यातिश्च निरधिष्ठानख्यातिरिहाष्टमी ॥ अर्थसंसर्गजाकारख्यातिश्च नवमी मता । बाह्याकारार्पिताकारख्यातिस्तु दशमी स्थिता ॥ भ्रान्तिस्थले पक्षभेदाः विद्वद्भिरुररीकृताः । तेषां विभागवचनमेतदत्र प्रवर्तते ॥ तत्रार्थशून्यं विज्ञानं योगाचारास्समाश्रिताः । आत्मख्यातिं विदुः स्वप्ने ह्यसत्ख्यातिं च जाग्रति॥ 2 कल्पिताकारिणी ख्यातिरसतख्यातिरितीतरे । तत्तु वैभाषिकमतं कल्पनावादिनो हि ते ॥ असतोऽपि भ्रमे भानं केचिद्वेदान्तिनो विदुः । विलक्षणाऽन्यथाख्यातिरेषोक्ताऽसत्प्रकारिणी ॥ शून्यख्यातिं विदुस्तत्र मध्यमागमवादिनः । योगाचारैः पुनस्तत्र न्याय एष प्रयुज्यते ॥
96 मानमेयरहस्यश्लोकवार्तिके स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथाहि यः । प्रत्ययस्स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥ तत्र प्रत्यक्षबाधोक्तौ शून्यख्यातिं समाश्रिताः । तां चाकारयुतां केचित्केचित्स्वच्छां विजानते ॥ ३ विकल्पाख्यां वृत्तिमिह शब्दज्ञानानुपातिनीम् । वस्तुशून्यां विदुः प्राज्ञाः पातञ्जलमतस्थिताः ॥ एते निर्विषयख्यातिवादिनः बौद्धसोदराः । असत्ख्यातिप्रसङ्गश्च ख्यात्यपह्नव इत्यपि ॥ अस्मिन्निर्विषयख्यातिवादे दोषो न कश्चन । अख्यातौ वाऽन्यथाख्यातौ विश्रमस्सर्ववादिनाम् ॥ असावन्यासक्तदृष्टिन्यायादिति तदाशयः । अन्यासङ्गे दृष्टिरेव नोत्पद्यत इतीतरे ॥ ४ एवं निरालम्बवादं शून्यवादं च तादृशम् । असत्कर्तुं हि सुधियो भ्रान्तिशिक्षां प्रचक्रिरे ॥ न तत् ज्ञानं नाम किंचित् यत्स्याद्विषयमन्तरा । तस्माद्भ्रमेऽपि विषयं शोधयन्ति विपश्चितः ॥ बाह्यार्थवादिनः केचित्सौगताः निरधिष्ठितिम् । ख्यातिमिच्छन्ति केशोण्ड्रूटिट्टिभादिमतिर्यथा ॥ इदं रजतमित्यत्र पुरोवर्तिनि वस्तुनि । नाध्यस्यते च रजतं किंतु संस्कारलेशतः ॥
भ्रमविचारः 297 तं दोषवशतः भाति स्वयमिदंतया । ्यातिस्सा निरधिष्ठाना स्याद्वैभाषिकसम्मता ॥ न्ये त्वाहुर्निराकारौ बुद्धिश्चार्थश्च वस्तुतः । पि सितरक्तादिराकारो जायते ततः ॥ च रजनीचूर्णसंयोगाद्रागसंभवः । एव बाह्य आकारः गृह्यते बुद्धिशक्तितः ॥ संसर्गजाकारख्यातिवादोऽयमीरितः । द्याकारार्पिताकारख्यातिवादः पुनर्यथा ॥ प्रकाशाध्यक्षसिद्धं विज्ञानं क्षणिकं यतः । परक्षणस्पर्शितया तचु न भासते ॥ बाह्यार्थमिथ्यात्वं व्यवहाराव्यवस्थितेः । लादिसंततौ पीताद्यनुत्पत्तिप्रसङ्गतः ॥ प्रत्यक्षस्स बाह्योर्थः संप्रयोगनिरोधतः । त्रकालं कथं ग्राह्यमितिचेद्ग्राह्यतां विदुः ॥ त्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् । हेतुत्वमेवात्र ग्राह्यत्वेनोपचर्यते ॥ नार्थयोस्समुत्पादे तुल्यसामग्र्यधीनयोः । नजन्मनि च ज्ञानमुपादानमितीष्यते ॥ र्थश्च सहकारी स्यात् अर्थोत्पत्तौ विपर्ययः । हेत्वर्पिताकारः स्वात्मा प्रत्यक्षगोचरः ॥
298 मानमेयरहस्यश्लोकवार्तिके तेनानुमीयते बाह्यस्सर्वोऽर्थ इति निर्णयः । एतत्सौत्रान्तिकमतं उभयं किंचिदन्तरम् ॥ 7 अन्यथाख्यातिवादेऽपि नासद्विषयकल्पना । इत्यत्र पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् ॥ इह त्वारोप्यसंसर्गिसंसर्गासत्त्ववर्णनम् । नासद्ग्रहणकॢप्तौ स्यात् प्रमाविषयसाम्यतः ॥ अदुष्टबुद्धौ तत्रैव संसर्गस्सन् विशेषकः । अन्यत्रसिद्ध एवासौ दुष्टायां दोषवैभवात् ॥ अन्यथाख्यातिवादेऽत्र विशेषांशोऽवधार्यताम् । कैश्चिदालम्बनं भ्रान्तावुक्तं सूर्यमरीचयः ॥ निगूहितनिजाकारास्सलिलाकारधारिणः । अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ॥ सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः । अन्यदालम्बनं चान्यत्प्रतिभातीति केचन ॥ आलम्बनं दीधितयः तोयं च प्रतिभासते । कर्तुः करणतो भिन्नं विज्ञानजनकं तु यत् ॥ तदालम्बनमित्युक्तं अन्यथाख्यातिवित्तमैः । कथंचिदपि विज्ञाने निरालम्बनता हता ॥ 8 अख्यातिपक्षे दोषाद्धीः शुक्तेः केवलधर्मिणः । धर्मसारूप्यमात्रेण रजतं स्मर्यते तदा ॥
३. मेय-भाग (प्रमेय परिच्छेद): द्रव्य, गुण, कर्म व सामान्य तत्व
भ्रमविचारः 2 दोषादेषाऽपिच तदा स्मृतित्वेन न गृह्यते । रजतं च स्मरामीति तदानीमप्रतीतितः ॥ तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः रजतस्मरणं शुक्तिग्रहणं चास्ति धीद्वयम् ॥ ग्रहणस्मरणे एते विविक्ते अपि तत्तया । न गृह्येते इति विवेकाग्रहोऽख्यातिरुच्यते ॥ विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् । स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥ द्विधाकृता क्वचिद्वृत्तिः नेत्रस्य तिमिरादिना । नहि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥ क्वचिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात् । परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥ गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्ति तत् । तथातु न विजानाति निगिरन्नेव शर्कराम् ॥ अख्यातिरेषा सर्वत्र कथंचित्कस्यचिन्मता । तदेवंसति सर्वत्र सम्यग्ग्रहणं भ्रमः ॥ एषोऽग्रहस्वभावो वा ख्यात्यन्तरमथापिवा । नाद्योऽभावानुपगमान्नान्त्यस्स्यात्ख्यातिरन्यथा ॥ तस्मात्सामान्यधर्मस्य ख्यातिस्सत्ख्यातिरेव सा अख्यातिवादस्सत्ख्यातिवादश्चार्थान्तरं मतः ॥
300 मानमेयरहस्यश्लोकवार्तिके यथार्थं सर्वमेवेह विज्ञानमिति सिद्धये । प्रभाकरगुरोर्भावः नयवीथ्यां प्रकाशितः ॥ आहार्यलक्षणस्तर्कोऽप्येवमेवान्यथाकृतः । संशयोऽपि विरुद्धार्थनानाज्ञानमिहेष्यते ॥ डोलासंयोगवत्, वेगो दृढश्चेन्निश्चयो मतः । ऊहानध्यवसायौ च परोक्तौ संशयात्मकौ ॥ तदन्यत्वेऽपि निर्वाहस्समानन्यायतो मतः । आत्मनः प्रतिसंधिर्यः प्रत्यभिज्ञैव सा मता ॥ तच्चैकमेव विज्ञानं न द्वयं सौगतादिवत् । बुद्धिबाधोक्तिरेषा स्यात् अयोग्यं वाक्यमिति, अतः। बुद्धिबाधनिषेधोक्त्या नान्यथाख्यातिसंभवः । 9 विपरीतख्यातिवादिकुमारिलमतं त्विदम् ॥ स्वप्नादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते । सर्वत्रालम्बनं ग्राह्यं देशकालान्यथात्मकम् ॥ जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपिवा । तद्देशो वाऽन्यदेशो वा स्वप्नज्ञानस्य गोचरः ॥ तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बनं तु तत् ॥ धर्मान्तरमभावोऽन्यो न कश्चिन्निरूपणात् । विज्ञायते वस्तु सर्वं सदसद्रूपभेदतः ॥
भ्रमविचारः ३ सत्स्यात्स्वरूपेण पुनरसत्स्यादन्यरूपतः । भ्रान्तिरन्यस्य सद्रूपेणान्यद्धि प्रतिपद्यते ॥ अभावधीरप्यन्यस्यासद्रूपेणान्यगोचरा । तेनोभयं ज्ञानमित्थमन्यथासन्तमन्यथा ॥ प्रतिपद्यत इत्युक्तिरेवंरीत्योपपद्यते । 10 सत्ख्यातिवादिनः प्राञ्चः भास्करा इति विश्रुतम् तात्कालिकं सदेवेदं जायते रजतादिकम् । भासते बाधकाले तु स्वसामग्र्या विनश्यति ॥ इत्याहुरेष वादस्स्यात्प्रातिभासिकसोदरः । 11 सत्ख्यातिपक्षे सामान्यधर्मग्रहणलक्षणे ॥ अप्यंशत्रयमस्तीति नावकाशो विवादिनाम् । यथार्थं सर्वविज्ञानमिति वेदविदां मतम् ॥ श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः । सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ॥ सोमावयवसद्भावादिति न्यायविदो विदुः । व्रीह्यभावे च नीवारग्रहणं व्रीहिभावतः ॥ तदेव सदृशं तस्य यत्तद्द्रव्यैकदेशभाक् । शुक्त्यदौ रजतादेश्च भावः श्रुत्यैव बोधितः ॥ रूप्यशुक्त्यादिनिर्देशभेदः भूयस्त्वहेतुकः । रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते ॥
३०२ मानमेयरहस्यश्लोकवार्तिके अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः । कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवर्जितः ॥ रजतांशो गृहीतोऽतः रजतार्थी प्रवर्तते । दोषहानौ तु शुक्त्यंशे गृहीते न प्रवर्तते ॥ अतो यथार्थं रूप्यादिविज्ञानं शुक्तिकादिषु । बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते ॥ शुक्तिभूयस्त्वसाकल्यवैकल्यग्रहरूपतः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥ एवं स्वाप्नादिविज्ञानं तत्तत्पुंकर्ममूलकम् । स हि कर्ता सृजति च तादृशार्थानिति श्रुतम् ॥ पीतशङ्खालातचक्रद्विचन्द्रमृगतृष्णिकाः । लोहितस्फटिकादर्शप्रतिबिम्बादयोऽपिच ॥ यथार्था इति सिद्धान्तः युक्तिभिः प्रकटीकृतः । इति सत्ख्यातिसिद्धान्तसंग्रहोऽयं निरूपितः ॥ (61) अनिर्वचनीयवादः. 1 अनिर्वाच्यख्यातिपक्षे सदसद्भिन्नलक्षणात् । तात्कालिकात्तु विषयान्निरालम्बननिह्नवः ॥ सत्त्वे न भ्रान्तिबाधौ स्तः नासत्त्वे ख्यातिबाधने। सदसद्भ्यामनिर्वाच्याऽविद्या विद्यैस्सह भ्रमः ॥
अनिर्वचनीयवादः ३ २ प्रातिभासिकवस्तूनामेवमुत्पत्तिरुच्यते । दुष्टेन्द्रियस्येदमर्थाकाराऽऽदौ वृत्तिरुद्भवेत् ॥ तस्यां वृत्ताविदमवच्छिन्ना चित्प्रतिबिम्बते । ततः प्रमात्रभिन्नेऽस्मिन्विषये शुक्तिकात्मनि ॥ याऽविद्या सा हि रजतसंस्कारसचिवा सती । काचादिदोषसहिता रजतार्थात्मना तथा ॥ रजताभासात्मना च युगपत्परिणामिनी । अविद्यापरिणामोऽयं रजतं प्रातिभासिकम् ॥ चैतन्यापेक्षया तच्च विवर्त इति चोच्यते । साक्षिण्यध्यस्तं च ततः वेद्यं केवलसाक्षिणः ॥ चित्रिष्ठमप्यवच्छेदाद्भासते हीदमात्मना । यथा ज्ञानमवच्छेदाच्छरीरे भासते तथा ॥ तथा स्वाप्नादयोऽप्यर्थाः तत्तत्कालावसायिनः । अनिर्वाच्या इति भ्रान्तिर्न हि निर्विषया क्वचित् ३ अनिर्वाच्यख्यातिपक्षाक्षेपोऽयमवधार्यताम् । प्रपञ्चसत्यसिद्धान्तवादिभिः प्रकटीकृतः ॥ अनिर्वाच्यानिर्वचत्वे भवेत्सर्वं निरुक्तिमत् । अथाखिलेऽप्यनिर्वाच्ये तत्त्वं स्याद्ब्रह्मतुच्छयोः ॥ अस्तु तत्प्रस्तुतस्यात्र न बाध इति चेत्तदा । तुर्यसौगतसिद्धान्तगर्तान्तःपतनं ध्रुवम् ॥
304 मानमेयरहस्यश्लोकवार्त्तिके जाते च सदसद्ग्राह्ये सदसद्धीः क्रमात्सती । स्वच्छायामिव दुर्लङ्घामन्यथाख्यातिमावहेत् ॥ अन्यथाख्यातिरस्तीति परबुद्धिं निषेधता । दृष्टा तदन्यथाख्यातिः अन्यथा किं निषिध्यते ॥ असच्चेन्न प्रतीयेतेत्येतल्लोकविसंमतम् । प्रतीयमानमेवैतन्मृगतोयमसन्मतम् ॥ प्रपञ्चो यदि बाध्येत सोऽसन्नेव भवेत्तदा । बाधायां नहि वैजात्यं कल्प्यं लोकविलक्षणम् ॥ सर्व्वदैवाप्रतीतं यदस दित्युच्यते यदि । कथं भवान् तत्प्रत्येति प्रत्याययति नः कथम् ॥ शून्यं तुच्छमसच्चेति सदेवास्माभिरुच्यते । खरे शृङ्गं नरे गोत्वमित्यादेस्तादृशत्वतः ॥ 4 असत्यात्सत्यनिष्पत्तिप्रतिपत्ती मते यदि । असत्यादप्यधिष्ठानादध्यासः किं न कल्प्यते ॥ अत्र कौमारिलं श्लोकवार्त्तिकं श्रूयतां पुनः । सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥ न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता । बाष्पादिनाऽप्यधूमेन मिथ्यावह्यादिबोधनम् ॥ तस्मादसत्यहेतोर्या परमार्थे मतिस्तव । साऽप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥
येऽपि रेखादयो दृष्टा वर्णानां प्रतिपादकाः । न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥ वर्णात्मना न सत्याश्चेत् सर्वभावेष्वयं विधिः । पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ काव्यप्रकाशसंकेते धर्मकीर्तिवचस्त्विदम् । उदाहृतं हि तत्रापि मणेरंशो मणिप्रभा ॥ अंशेन चांशिनो लाभे नासत्यात्प्रतिपत्सती । असत्यात्सत्यनिष्पत्तिवादोऽप्यन्यत्र विस्तृतः ॥ 5 उपायानां स्वरूपं हि संवृत्यात्मकमेव चेत् । संवृत्या यत्स्वरूपं स्यात्तदाज्ञात्रनिबन्धनम् ॥ इतोऽपि विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः । संवृतेरपि यत्तत्त्वं तत्पुरस्ताद्विविच्यते ॥ मर्यादास्थापनार्थं च मानतकौ समुत्थितौ । सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥ परमर्यादया ब्रूमः परव्याहतिमित्यसत् । स्वव्याघातादिभङ्गानां परानङ्गीकृतेरिति ॥ सदसद्व्यतिरेकोऽपि विरुद्धो यदि गृह्यते । सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥ M.R. 39
306 मानमेयरहस्यश्लोकवार्तिके अनुष्णाशीतवत्तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि, सिद्धं तदत्र नः ॥ स्वशास्त्रनिर्णये सत्ये सत्यास्स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसत्ये सत्यास्स्युर्लोकनिर्णयाः ॥ नच विश्वस्य बाधोऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधः सर्वं हि संस्पृशेत् ॥ मिथ्यात्वेन च दृश्यत्वं स्वतस्संबन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुद्धिरत्यनया दिशा ॥ अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् । निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्यधःकृताः ॥ एवमाद्यैः वचोभेदैः प्रायः खण्डनखण्डनैः । अनिर्वाच्यख्यातिपक्षे प्रतिपक्षान् प्रचक्षते ॥ 6 दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम् । इत्येकमेव ब्रह्मास्त्रं परैः प्रतिनिधीयते ॥ अविद्यावागुरा सैषा यथा विज्ञानवागुरा । वासनावागुरा सर्वं पुरुषो वासनामयः ॥ 7 सर्वसत्यत्वसिद्धान्ते भगवान् सर्वशक्तिमान् । क्षेत्रज्ञकर्मानुगुणजगन्निर्माणदीक्षितः ॥ तदसाधारणानर्थान् कांश्चित्साधारणानपि । सृष्ट्वाऽनुभावयत्येतानिति श्रीभाष्यनिर्णयः ॥
संवृतिवादः 30 अविद्याशक्तिरेकत्र विष्णुशक्तिः परत्र तु । उभयत्रोपपत्तिस्तु समेति विबुधा विदुः ॥ ईश्वरस्य तु माहात्म्यं ज्ञायते चरमे मते । व्यवहारदृशाऽन्यैरप्येतदभ्युपगम्यते ॥ उभयोरप्यनुष्ठाने न विशेषोऽस्ति कश्चन । न लोकसंकरो नापि व्यवहारस्य संकरः ॥ अभिप्रायप्रभेदस्तु विचित्रः प्रतिपूरुषम् । (62) संवृतिवादः. 1 संवृतिर्नाम या तत्त्वं संवृणोति स्वभावतः । तिरस्करोति दोषात्मा सा संवृतिपदाभिधा ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ इति बौद्धवचोऽनूद्य प्रवृत्तं श्लोकवार्तिकम् । अत्रावधेयं यन्मूलमनिर्वाच्यवचोऽपि च ॥ 2 संवृतेर्नतु सत्यत्वं सत्यभेदः कुतो न्वयम् । सत्यं चेत्संवृतिः केयं मृषा चेत्सत्यता कथम् ॥ सत्यत्वं नच सामान्यं मृषार्थपरमार्थयोः । विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥ तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः । वञ्चनार्थ उपन्यासः लालावक्त्रासवादिवत् ॥
308 मानमेयरहस्यश्लोकवार्तिके नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च । कल्पनाऽपि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥ तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः । तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ॥ स्वप्नादिभोगवच्चापि योपभोगस्य कल्पना । तन्निवृत्त्यर्थमेवेह परमार्थे प्रयतते ॥ 3 इत्यस्य विवृतिः काचित् एषा सर्वार्थसिद्धितः । संगृह्य लिखिता ज्ञेया धीमतां तत्र विस्तरः ॥ अथ संवृतिसत्यत्वं संवृतेस्सत्यतेष्यते । यद्वा संवृतिसंबन्धात्सत्यतेत्यभिधीयते ॥ सत्यत्वेन त्वसत्यं वा किं संवृत्याऽवभासते । संवृत्यां भ्रमरूपायां तथा वा भानमुच्यते ॥ यद्वा तैमिरिके केशस्तवकभ्रान्तिरीरितः । संवृत्याख्ये दोषभेदे किमध्यस्तमितीर्यते ॥ संवृतेस्सत्यतापक्षः वार्तिकेन विशोधितः । द्वितीयादिविकल्पानां समाधिरभिधीयते ॥ अथ संवृतिसंबन्धात् स्वभावादन्यजातिमत् । अन्यजातीयतां यायादिति दृष्टं नहि क्वचित् ॥ अन्यथाख्यातिरेवेयं स्यात्तृतीयतुरीययोः । पञ्चमे संवृतिर्दोष इति नैव प्रसिद्धयति ॥
दूरासन्नत्वसादृश्यकाचादिषु हि दोषता । व्यावहारिकसत्यत्वमित्यत्राप्येवमूह्यताम् ॥ 4 सत्त्वासत्त्वविकल्पोऽपि प्रसङ्गादिह कीर्त्यते । व्यक्तीभविष्यति प्रायः निदानं सर्वदर्शने ॥ सत्त्वं प्रमाणसंबन्धः कालसंबन्ध इत्यपि । अर्थक्रियाकारिता वा निर्विकारत्वमेव वा ॥ सत्ताश्रयत्वं द्रव्यत्वं महासामान्यमित्यपि । व्यवहारार्हता वा स्याद्यद्वा नानास्वभावता ॥ वस्तुत्वं वाऽथ भावत्वं ध्रुवोत्पादविनाशिता । एवमादिप्रभेदेन बुधैस्तैस्तैर्निरुच्यते ॥ असत्त्वमपिचैवेत्थं विपश्चिद्भिर्विकल्प्यते । असत्तुच्छं निःस्वभावमलीकं शून्यमित्यपि ॥ आरोपितमनिर्वाच्यमध्यस्तं कल्पितं तथा । निरुपाख्यं च निष्प्रख्यं विचारासहताऽपिवा ॥ विवर्तं संवृतं मिथ्याऽभावो व्यावृत्तमित्यपि । निषिद्धं चेत्येवमाद्यान् शब्दानत्र प्रयुञ्जते ॥ प्रायस्तेषामर्थभेदः कल्प्यते पारिभाषिकः । केचित्क्वचित्त्वैक्यदृष्ट्या कुर्युः खण्डनमण्डने ॥ कैश्चिच्च देशकालादिनियतं चोभयं मतम् । अतो विधिर्निषेधश्च नास्त्येव निरुपाधिकः ॥
इत्येतेषामभिप्रायः, अतएव परे बुधाः । नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥ पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्रिताः। अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥ (63) प्रत्यभिज्ञावादः. 1 अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् । ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥ प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः । तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥ परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् । दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥ 2 सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् । करणाकरणादीनां कालभेदाद्युपाधितः ॥ अविरोधान्न बीजादौ शक्यते भेदकल्पना । दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥ अन्यथा देशभेदेन करणाकरणादिभिः । एकं जगति नैव स्यात् इति स्यात्सर्वशून्यता ॥ 3 तस्मादिरुद्धसंसृष्टविषयप्रत्यभिज्ञया । स्थिरत्वं सर्ववस्तूनां सर्वेषामपि चात्मनाम् ॥
प्रत्यभिज्ञावादः 311 4 संवादो नाम विज्ञानं जात्यन्तरमितीतरे । गृहीतविषयं शब्दहेतुकं तद्विदुः परे ॥ शाब्दप्रभेद इत्यन्ये प्राहुरेवं धियामिह । विवादा बहवस्सूक्ष्माः विद्वद्भिरुपदर्शिताः ॥ स्मृतिः गृहीतविषया मतिः तात्कालिकी मता । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥ अनन्तो बुद्धिभेदोऽयमलंकारादिशास्त्रतः । विज्ञेयो ननु बुद्धयैव बाह्यान्तरविकल्पना ॥ (64) स्वयंप्रकाशवादः. 1 एवं सौगतसिद्धान्तः तत्तत्सिद्धान्तनिष्ठितैः । निरस्यते रीतिभेदैः अन्योन्यपरिपन्थिभिः ॥ प्रतिभावादिनो ये स्युः वार्ताक्षौदुम्बरायणाः । प्रतिभागोचरश्शब्दः तदर्थश्चेति तन्मतम् ॥ 2 अत्र कश्चित्स्वतन्त्रोऽस्ति सिद्धान्तस्सोऽवधार्यताम् ज्ञानं नाम पदार्थो यस्स नास्त्येवेति तन्मतम् ॥ ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता । तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥ स एव भूतचैतन्यवादिनः परमाशयः । अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥