मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 346, कुल 672 में से
संदर्भ में पढ़ें304 मानमेयरहस्यश्लोकवार्त्तिके जाते च सदसद्ग्राह्ये सदसद्धीः क्रमात्सती । स्वच्छायामिव दुर्लङ्घामन्यथाख्यातिमावहेत् ॥ अन्यथाख्यातिरस्तीति परबुद्धिं निषेधता । दृष्टा तदन्यथाख्यातिः अन्यथा किं निषिध्यते ॥ असच्चेन्न प्रतीयेतेत्येतल्लोकविसंमतम् । प्रतीयमानमेवैतन्मृगतोयमसन्मतम् ॥ प्रपञ्चो यदि बाध्येत सोऽसन्नेव भवेत्तदा । बाधायां नहि वैजात्यं कल्प्यं लोकविलक्षणम् ॥ सर्व्वदैवाप्रतीतं यदस दित्युच्यते यदि । कथं भवान् तत्प्रत्येति प्रत्याययति नः कथम् ॥ शून्यं तुच्छमसच्चेति सदेवास्माभिरुच्यते । खरे शृङ्गं नरे गोत्वमित्यादेस्तादृशत्वतः ॥ 4 असत्यात्सत्यनिष्पत्तिप्रतिपत्ती मते यदि । असत्यादप्यधिष्ठानादध्यासः किं न कल्प्यते ॥ अत्र कौमारिलं श्लोकवार्त्तिकं श्रूयतां पुनः । सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥ न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता । बाष्पादिनाऽप्यधूमेन मिथ्यावह्यादिबोधनम् ॥ तस्मादसत्यहेतोर्या परमार्थे मतिस्तव । साऽप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥