मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 347, कुल 672 में से
संदर्भ में पढ़ेंयेऽपि रेखादयो दृष्टा वर्णानां प्रतिपादकाः । न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥ वर्णात्मना न सत्याश्चेत् सर्वभावेष्वयं विधिः । पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ काव्यप्रकाशसंकेते धर्मकीर्तिवचस्त्विदम् । उदाहृतं हि तत्रापि मणेरंशो मणिप्रभा ॥ अंशेन चांशिनो लाभे नासत्यात्प्रतिपत्सती । असत्यात्सत्यनिष्पत्तिवादोऽप्यन्यत्र विस्तृतः ॥ 5 उपायानां स्वरूपं हि संवृत्यात्मकमेव चेत् । संवृत्या यत्स्वरूपं स्यात्तदाज्ञात्रनिबन्धनम् ॥ इतोऽपि विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः । संवृतेरपि यत्तत्त्वं तत्पुरस्ताद्विविच्यते ॥ मर्यादास्थापनार्थं च मानतकौ समुत्थितौ । सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥ परमर्यादया ब्रूमः परव्याहतिमित्यसत् । स्वव्याघातादिभङ्गानां परानङ्गीकृतेरिति ॥ सदसद्व्यतिरेकोऽपि विरुद्धो यदि गृह्यते । सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥ M.R. 39