मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 348, कुल 672 में से
संदर्भ में पढ़ें306 मानमेयरहस्यश्लोकवार्तिके अनुष्णाशीतवत्तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि, सिद्धं तदत्र नः ॥ स्वशास्त्रनिर्णये सत्ये सत्यास्स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसत्ये सत्यास्स्युर्लोकनिर्णयाः ॥ नच विश्वस्य बाधोऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधः सर्वं हि संस्पृशेत् ॥ मिथ्यात्वेन च दृश्यत्वं स्वतस्संबन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुद्धिरत्यनया दिशा ॥ अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् । निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्यधःकृताः ॥ एवमाद्यैः वचोभेदैः प्रायः खण्डनखण्डनैः । अनिर्वाच्यख्यातिपक्षे प्रतिपक्षान् प्रचक्षते ॥ 6 दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम् । इत्येकमेव ब्रह्मास्त्रं परैः प्रतिनिधीयते ॥ अविद्यावागुरा सैषा यथा विज्ञानवागुरा । वासनावागुरा सर्वं पुरुषो वासनामयः ॥ 7 सर्वसत्यत्वसिद्धान्ते भगवान् सर्वशक्तिमान् । क्षेत्रज्ञकर्मानुगुणजगन्निर्माणदीक्षितः ॥ तदसाधारणानर्थान् कांश्चित्साधारणानपि । सृष्ट्वाऽनुभावयत्येतानिति श्रीभाष्यनिर्णयः ॥