भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 349, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 349

संवृतिवादः 30 अविद्याशक्तिरेकत्र विष्णुशक्तिः परत्र तु । उभयत्रोपपत्तिस्तु समेति विबुधा विदुः ॥ ईश्वरस्य तु माहात्म्यं ज्ञायते चरमे मते । व्यवहारदृशाऽन्यैरप्येतदभ्युपगम्यते ॥ उभयोरप्यनुष्ठाने न विशेषोऽस्ति कश्चन । न लोकसंकरो नापि व्यवहारस्य संकरः ॥ अभिप्रायप्रभेदस्तु विचित्रः प्रतिपूरुषम् । (62) संवृतिवादः. 1 संवृतिर्नाम या तत्त्वं संवृणोति स्वभावतः । तिरस्करोति दोषात्मा सा संवृतिपदाभिधा ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ इति बौद्धवचोऽनूद्य प्रवृत्तं श्लोकवार्तिकम् । अत्रावधेयं यन्मूलमनिर्वाच्यवचोऽपि च ॥ 2 संवृतेर्नतु सत्यत्वं सत्यभेदः कुतो न्वयम् । सत्यं चेत्संवृतिः केयं मृषा चेत्सत्यता कथम् ॥ सत्यत्वं नच सामान्यं मृषार्थपरमार्थयोः । विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥ तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः । वञ्चनार्थ उपन्यासः लालावक्त्रासवादिवत् ॥