मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 350, कुल 672 में से
संदर्भ में पढ़ें308 मानमेयरहस्यश्लोकवार्तिके नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च । कल्पनाऽपि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥ तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः । तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ॥ स्वप्नादिभोगवच्चापि योपभोगस्य कल्पना । तन्निवृत्त्यर्थमेवेह परमार्थे प्रयतते ॥ 3 इत्यस्य विवृतिः काचित् एषा सर्वार्थसिद्धितः । संगृह्य लिखिता ज्ञेया धीमतां तत्र विस्तरः ॥ अथ संवृतिसत्यत्वं संवृतेस्सत्यतेष्यते । यद्वा संवृतिसंबन्धात्सत्यतेत्यभिधीयते ॥ सत्यत्वेन त्वसत्यं वा किं संवृत्याऽवभासते । संवृत्यां भ्रमरूपायां तथा वा भानमुच्यते ॥ यद्वा तैमिरिके केशस्तवकभ्रान्तिरीरितः । संवृत्याख्ये दोषभेदे किमध्यस्तमितीर्यते ॥ संवृतेस्सत्यतापक्षः वार्तिकेन विशोधितः । द्वितीयादिविकल्पानां समाधिरभिधीयते ॥ अथ संवृतिसंबन्धात् स्वभावादन्यजातिमत् । अन्यजातीयतां यायादिति दृष्टं नहि क्वचित् ॥ अन्यथाख्यातिरेवेयं स्यात्तृतीयतुरीययोः । पञ्चमे संवृतिर्दोष इति नैव प्रसिद्धयति ॥