भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 345, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 345

अनिर्वचनीयवादः ३ २ प्रातिभासिकवस्तूनामेवमुत्पत्तिरुच्यते । दुष्टेन्द्रियस्येदमर्थाकाराऽऽदौ वृत्तिरुद्भवेत् ॥ तस्यां वृत्ताविदमवच्छिन्ना चित्प्रतिबिम्बते । ततः प्रमात्रभिन्नेऽस्मिन्विषये शुक्तिकात्मनि ॥ याऽविद्या सा हि रजतसंस्कारसचिवा सती । काचादिदोषसहिता रजतार्थात्मना तथा ॥ रजताभासात्मना च युगपत्परिणामिनी । अविद्यापरिणामोऽयं रजतं प्रातिभासिकम् ॥ चैतन्यापेक्षया तच्च विवर्त इति चोच्यते । साक्षिण्यध्यस्तं च ततः वेद्यं केवलसाक्षिणः ॥ चित्रिष्ठमप्यवच्छेदाद्भासते हीदमात्मना । यथा ज्ञानमवच्छेदाच्छरीरे भासते तथा ॥ तथा स्वाप्नादयोऽप्यर्थाः तत्तत्कालावसायिनः । अनिर्वाच्या इति भ्रान्तिर्न हि निर्विषया क्वचित् ३ अनिर्वाच्यख्यातिपक्षाक्षेपोऽयमवधार्यताम् । प्रपञ्चसत्यसिद्धान्तवादिभिः प्रकटीकृतः ॥ अनिर्वाच्यानिर्वचत्वे भवेत्सर्वं निरुक्तिमत् । अथाखिलेऽप्यनिर्वाच्ये तत्त्वं स्याद्ब्रह्मतुच्छयोः ॥ अस्तु तत्प्रस्तुतस्यात्र न बाध इति चेत्तदा । तुर्यसौगतसिद्धान्तगर्तान्तःपतनं ध्रुवम् ॥