मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 344, कुल 672 में से
संदर्भ में पढ़ें३०२ मानमेयरहस्यश्लोकवार्तिके अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः । कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवर्जितः ॥ रजतांशो गृहीतोऽतः रजतार्थी प्रवर्तते । दोषहानौ तु शुक्त्यंशे गृहीते न प्रवर्तते ॥ अतो यथार्थं रूप्यादिविज्ञानं शुक्तिकादिषु । बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते ॥ शुक्तिभूयस्त्वसाकल्यवैकल्यग्रहरूपतः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥ एवं स्वाप्नादिविज्ञानं तत्तत्पुंकर्ममूलकम् । स हि कर्ता सृजति च तादृशार्थानिति श्रुतम् ॥ पीतशङ्खालातचक्रद्विचन्द्रमृगतृष्णिकाः । लोहितस्फटिकादर्शप्रतिबिम्बादयोऽपिच ॥ यथार्था इति सिद्धान्तः युक्तिभिः प्रकटीकृतः । इति सत्ख्यातिसिद्धान्तसंग्रहोऽयं निरूपितः ॥ (61) अनिर्वचनीयवादः. 1 अनिर्वाच्यख्यातिपक्षे सदसद्भिन्नलक्षणात् । तात्कालिकात्तु विषयान्निरालम्बननिह्नवः ॥ सत्त्वे न भ्रान्तिबाधौ स्तः नासत्त्वे ख्यातिबाधने। सदसद्भ्यामनिर्वाच्याऽविद्या विद्यैस्सह भ्रमः ॥