मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 343, कुल 672 में से
संदर्भ में पढ़ेंभ्रमविचारः ३ सत्स्यात्स्वरूपेण पुनरसत्स्यादन्यरूपतः । भ्रान्तिरन्यस्य सद्रूपेणान्यद्धि प्रतिपद्यते ॥ अभावधीरप्यन्यस्यासद्रूपेणान्यगोचरा । तेनोभयं ज्ञानमित्थमन्यथासन्तमन्यथा ॥ प्रतिपद्यत इत्युक्तिरेवंरीत्योपपद्यते । 10 सत्ख्यातिवादिनः प्राञ्चः भास्करा इति विश्रुतम् तात्कालिकं सदेवेदं जायते रजतादिकम् । भासते बाधकाले तु स्वसामग्र्या विनश्यति ॥ इत्याहुरेष वादस्स्यात्प्रातिभासिकसोदरः । 11 सत्ख्यातिपक्षे सामान्यधर्मग्रहणलक्षणे ॥ अप्यंशत्रयमस्तीति नावकाशो विवादिनाम् । यथार्थं सर्वविज्ञानमिति वेदविदां मतम् ॥ श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः । सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ॥ सोमावयवसद्भावादिति न्यायविदो विदुः । व्रीह्यभावे च नीवारग्रहणं व्रीहिभावतः ॥ तदेव सदृशं तस्य यत्तद्द्रव्यैकदेशभाक् । शुक्त्यदौ रजतादेश्च भावः श्रुत्यैव बोधितः ॥ रूप्यशुक्त्यादिनिर्देशभेदः भूयस्त्वहेतुकः । रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते ॥