मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 352, कुल 672 में से
संदर्भ में पढ़ेंइत्येतेषामभिप्रायः, अतएव परे बुधाः । नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥ पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्रिताः। अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥ (63) प्रत्यभिज्ञावादः. 1 अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् । ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥ प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः । तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥ परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् । दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥ 2 सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् । करणाकरणादीनां कालभेदाद्युपाधितः ॥ अविरोधान्न बीजादौ शक्यते भेदकल्पना । दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥ अन्यथा देशभेदेन करणाकरणादिभिः । एकं जगति नैव स्यात् इति स्यात्सर्वशून्यता ॥ 3 तस्मादिरुद्धसंसृष्टविषयप्रत्यभिज्ञया । स्थिरत्वं सर्ववस्तूनां सर्वेषामपि चात्मनाम् ॥