मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
इत्येतेषामभिप्रायः, अतएव परे बुधाः । नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥ पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्रिताः। अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥ (63) प्रत्यभिज्ञावादः. 1 अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् । ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥ प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः । तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥ परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् । दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥ 2 सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् । करणाकरणादीनां कालभेदाद्युपाधितः ॥ अविरोधान्न बीजादौ शक्यते भेदकल्पना । दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥ अन्यथा देशभेदेन करणाकरणादिभिः । एकं जगति नैव स्यात् इति स्यात्सर्वशून्यता ॥ 3 तस्मादिरुद्धसंसृष्टविषयप्रत्यभिज्ञया । स्थिरत्वं सर्ववस्तूनां सर्वेषामपि चात्मनाम् ॥
प्रत्यभिज्ञावादः 311 4 संवादो नाम विज्ञानं जात्यन्तरमितीतरे । गृहीतविषयं शब्दहेतुकं तद्विदुः परे ॥ शाब्दप्रभेद इत्यन्ये प्राहुरेवं धियामिह । विवादा बहवस्सूक्ष्माः विद्वद्भिरुपदर्शिताः ॥ स्मृतिः गृहीतविषया मतिः तात्कालिकी मता । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥ अनन्तो बुद्धिभेदोऽयमलंकारादिशास्त्रतः । विज्ञेयो ननु बुद्धयैव बाह्यान्तरविकल्पना ॥ (64) स्वयंप्रकाशवादः. 1 एवं सौगतसिद्धान्तः तत्तत्सिद्धान्तनिष्ठितैः । निरस्यते रीतिभेदैः अन्योन्यपरिपन्थिभिः ॥ प्रतिभावादिनो ये स्युः वार्ताक्षौदुम्बरायणाः । प्रतिभागोचरश्शब्दः तदर्थश्चेति तन्मतम् ॥ 2 अत्र कश्चित्स्वतन्त्रोऽस्ति सिद्धान्तस्सोऽवधार्यताम् ज्ञानं नाम पदार्थो यस्स नास्त्येवेति तन्मतम् ॥ ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता । तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥ स एव भूतचैतन्यवादिनः परमाशयः । अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥
312 मानमेयरहस्यश्लोकवार्तिके अतीन्द्रियजडज्ञानवादिनो ये कुमारिलाः । दुरुद्धरा वागुरेयं तेषामिति परे विदुः ॥ 3 नचोपलभते कश्चिदज्ञातेऽर्थे धियं क्वचित् । ज्ञातेऽनुमानाज्जानीत इत्याह शबरस्स्वयम् ॥ 4 इदं संवेद्म्यहमिति कर्मकर्तृकरम्बितम् । उपलब्धं समाश्रित्य धीराः तस्य स्वभासताम्। अङ्ग्यकार्षुस्सौगताद्या अपि नातोऽनवस्थितिः । सर्वं ज्ञानाधीनसिद्धि व्यवहाराय कल्पते ॥ ज्ञानं चापश्यतां सर्वशून्यत्वाद्बिभ्यतां सताम् । गतिः स्वयंप्रकाशत्वाहते नान्योपलभ्यते ॥ 5 ज्ञानाज्ञानेऽपि विषयव्यवहारं विदुः परे । घटोऽयमिति विज्ञाने घटमात्रं हि भासते ॥ अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ इत्याहुरथचात्रैव केचित्स्वायम्भुवादयः । नतु चित्तं स्वप्रकाशं न चित्तान्तरसिद्धयपि ॥ सर्वं सवृत्तिकं चित्तं साक्षिवेद्यं सदा स्थितम् । सर्वोपपत्तिरेतस्मिन् सिद्धान्त इति मन्वते ॥ तमेव पक्षं प्रायेण तथौपनिषदा अपि । आश्रित्य निर्वहन्त्यत्र व्यवहारं हि साक्षिणा ॥
स्वयंप्रकाशवादः व्यवहारो हि जगति भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते । सामान्यतो निश्चिते हि विशेषः स्याद्बुभुत्सितः कृतकक्षणिकानेकं ज्ञानमात्मेति केचन ॥ नित्यस्थिरैकविज्ञानमात्मानमपरे विदुः । विधाभेदे विवादोऽयं धर्मी तूभयसम्मतः ॥ धर्मधर्म्यैक्यवादे तु विवादोऽनवकाशभाक् । तदर्थमेव तादात्म्यं केचिदिच्छन्ति सूरयः ॥ प्रकाशं विषयत्वं च विभिन्नं ये विदुर्बुधाः । संविदः स्वप्रकाशेऽपि वेद्यतां तां न मन्वते ॥ विषयत्वं प्रकाशं च ये त्वनर्थान्तरं विदुः । संविदन्तरसंवेद्यामप्याहुस्संविदं तु ताम् ॥ अन्यथा गुरुशिष्यादेः सर्वलौकिकसम्मतः । व्यवहारो विलुप्येत प्राज्ञाज्ञायविनिश्चयात् ॥ स्वसत्तयैव प्रकाशमानत्वमनुभूतिता । इति संवित्स्वप्रकाशवादिज्ञानत्वनिर्णयः ॥ वर्तमानदशायां स्वसत्तयैवाश्रयं प्रति । प्रकाशमानत्वमनुभूतित्वमिति केचन ॥ सत्तयैव स्वविषयसाधनत्वमितीतरे । परप्रकाशविज्ञानवादिनैयायिकादयः ॥ M.R. 40
514 मानमेयरहस्यश्लोकवार्तिके 6 आत्मनोऽनुभवो नाम स्वरूपं निर्विशेषिणाम् । स्वेनैव स्वस्य विषयीकरणे विकृतिर्भवेत् ॥ फलव्याप्यत्वमेवास्य शास्त्रकृद्भिः निराकृतम् । ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते ॥ या चावरणभङ्गावच्छिन्ना वृत्तिः फलं हि सा । तद्व्याप्यताऽप्यन्यैराचार्यैर्नोपगम्यते ॥ व्यवहारोपपत्तिर्हि सर्वथा निर्विशेषिणाम् । अपेक्षिता ततस्सूक्ष्मचिन्ता विज्ञानचातुरी ॥ 7 सविशेषविदां तत्त्वं प्रसङ्गात्किंचिदुच्यते । आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥ स्फुरतः स्फुरणं धर्मः सैव स्याद्भासमानता । व्यवहारानुगुण्यं वा वह्नेरौज्ज्वल्यवत्तु तत् ॥ स नित्य आत्मनो धर्मः न तेन स्याद्विकारिता । तथैव चेश्वरात्माऽपि स्वानुभाव्य इतीष्यते ॥ धर्मभूतं ज्ञानमपि सर्वेषामात्मनां सदा । विषयव्यक्तिवेलायां स्वयमेवावभासते ॥ नित्यमुक्तेश्वराणां तु सर्वदैव विकासि तत् । अनुग्रहेच्छासंकल्पप्रमुखाकारभागपि ॥ न तावता स्वभावस्य विकारश्शङ्क्यते क्वचित् । स्वभावोपाधिभेदेन गुणदोषव्यवस्थितिः ॥
स्मृतिः ३१५ अनित्यमपि विज्ञानमीश्वरेऽस्तीति केचन । तद्विकारोऽनुग्रहेच्छासंकल्पास्त्विति चाभ्यधुः ॥ औपाधिकागन्तुकेनाकारेणैव विकारिता । स्वभाविको य आकारः धर्मिणो भूषणं तु तत् ॥ तथैव द्वैतसिद्धान्ते धर्मभूतधियः स्थले । स्वरूपमेवाभिषिच्य सर्वमित्थं निरूह्यते ॥ (६५) स्मृतिः. १ अथ स्मृतिविचारोऽसौ क्रियते विदुषां मुदे । स्मृतिरेवहि संस्कारो वासनेत्यपि कीर्त्यते ॥ स्मृतिशक्तौ स्थितस्सर्वः प्रपञ्च इति सुस्थितम् । वासनामात्रनिष्ठं चेज्जगत्स्याच्छून्यलक्षणम् ॥ इति हार्दं सौगतानां स्मृत्यप्रामाण्यवादिनम् । २ लोके स्मृत्यैव हि कृताकृतयोः पर्यवेक्षणम् ॥ स्मृत्यैव कवयन्त्यत्र काव्यानि कवयः पुनः । स्मृत्यैव किल शब्दादिप्रमाणानां प्रवृत्तयः ॥ स्मृत्यैव हि परब्रह्मसाक्षात्कारादिरिष्यते । व्यवहारस्य सर्वस्य स्मृत्यप्रामाण्यवादिनः ॥ अव्यवस्थाप्रसङ्गेन भवन्त्येवाव्यवस्थिताः । स्मृतिशक्तिविहीनांस्तु चोन्मत्तानिति जानते ॥
316 मानमेयरहस्यश्लोकवार्तिके स्मृतिमात्राप्रमाणत्वं न युक्तमिति वीक्ष्यताम् । अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥ बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता । विशुद्धस्मृतिमूलेऽपि मानवादौ प्रसङ्गतः ॥ भ्रान्तिं प्रमातो भिन्दन्तः नचाहुः स्मृतिमानताम् । स्मृतित्वमेव हि व्यक्तमप्रामाण्यं तु तन्मते ॥ पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते । चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥ ततश्च प्रतिपत्तौ वा व्यवहारोदयेऽपिवा । तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तिव्यवस्थितिः ॥ तस्मात् स्मृतिर्नाप्रमाणं बाधानर्हार्थदर्शनात् । प्रतिभास्मृतिशक्त्यादिशालिनस्स्युः परीक्षकाः ॥ अनुमाने हि गुरवो गृहीतग्राहितां विदुः । धारावाहिनि चाध्यक्षे तार्किकास्तां विजानते ॥ सर्वज्ञवादिनां तादृक् द्वितीयं योगजं मतम् । अनित्यमीश्वरज्ञानं तादृशं हीशवादिनाम् ॥ अप्रामाण्यं वदन्तोऽपि स्मृतेर्वैशेषिकादयः । स्वके शास्त्रे हि याथात्म्याद्विद्याकोटौ पठन्ति ताम् ॥ तदेकदेशिभिरपि प्रामाण्यं स्वीकृतं ततः । ऐन्द्रपाणिनिदृष्टानां प्रामाण्यं सर्वसम्मतम् ॥
भ्रमविचारः 317 वागीश्वरादिभिः प्राच्यैरुक्तं मानमनोहरे । प्रामाण्यमिति हि न्यायपरिशुद्धावुदीरितम् ॥ 3 इति स्मृतीनां प्रामाण्यं विदां वेदविदां मतम् । अप्रामाण्यं वदन्तो ये तेषां भावोऽयमुच्यते ॥ स्मृतिर्न बाह्यविषया नष्टेऽर्थे स्मृतिदर्शनात् । तस्मान्न प्रत्यभिज्ञाऽपि प्रामाण्यं लब्धुमर्हति ॥ ततः क्षणिकसिद्धान्तः निर्निरोध इतीतरे । परे विदुः प्रत्यभिज्ञात्यागिनां लोकबाह्यताम् ॥ शाक्यनिर्ग्रन्थसंसारमोचकानां स्मृतेः पुनः । अप्रामाण्यप्रतिष्ठायै स्मृतिमन्ये समत्यजन् ॥ पूर्वमीमांसका एते, तद्वर्त्मैवानुवर्त्यते । नैयायिकादिभिरपि गतानुगतिकं जगत् ॥ 4 अगृहीतार्थगन्तृत्वं प्रोक्तं प्रामाण्यलक्षणे । स्मृतिव्यावृत्तये पूर्वैः दूषितं तन्तु तार्किकैः ॥ न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपित्वनर्थजन्यत्वमित्याहुः किल तार्किकाः ॥ शब्दस्यानुपलब्धेऽर्थे प्रामाण्यं प्राह जैमिनिः । सर्वप्रमाणविषयं तदित्याहुः कुमारिलाः ॥ संप्लवन्ते प्रमाणानि प्रमेयमिह भूरिशः । व्यवतिष्ठन्तेऽपि तथा क्वचित्त्विति बुधा विदुः ॥
318 मानमेयरहस्यश्लोकवार्तिके तस्मात्स्मृतिमूलशुद्ध्या प्रमाणमिति निश्चितम् मूलान्तर्भावदृष्ट्या तु पृथक्प्रामाण्यनिह्नवः ॥ (66) प्रतिभावादः 1 जन्मौषधितपोयोगजनितास्सिद्धयस्तथा । प्रातिभाद्वा सर्वमिति सिद्धीराह पतञ्जलिः ॥ प्रतिभैव प्रसंख्यानं विवेकख्यातिरुच्यते । तदर्थं संयमस्याऽनुष्ठाने तत्सिद्धिसूचकम् ॥ उदेति प्रातिभं सूर्योदयात्प्रागरुणो यथा । तेन तारकसंज्ञेन योगी सर्वं हि पश्यति ॥ योगोत्थशुक्लधर्मानुगृहीताच्चित्तमात्रतः । दिव्यान् भोगान्विजानाति योगीति मुनयो विदुः॥ 2 एतच्छ्रुत्वैव कतिचिदायासालसबुद्धयः । प्रमाणान्तरमिच्छन्ति प्रतिभां तन्निशम्यताम् ॥ ननुच प्रतिभा काचित् यथार्था मानमिष्यताम् । बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमाऽस्तु सा ॥ विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसंभवा । इति चेदत्र कथितमभियुक्तैरिदं तु तत् ॥ 3 सत्यं कालादिभेदस्तु दुर्विवेचोऽस्मदादिभिः । सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते ॥
प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः । तदाऽन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ॥ पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी । तस्मात्पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥ साऽपि प्रागुक्तयोगीन्द्रप्रत्यक्षेऽन्तर्भवत्यसौ । इति तस्मान्न प्रमाणमतिरिक्तं तदिष्यते ॥ (67) सर्वज्ञवादः 1 अथ बुद्धागमादीनां धर्मप्रामाण्यशङ्कया । सर्वसर्वज्ञविद्वेषि मीमांसकमतं त्विदम् ॥ शाक्यार्हतार्षभेदेन सर्वज्ञास्त्रिविधाःश्रुताः । स्वसार्वज्ञ्याय ते सर्वे निरस्ताः श्लोकवार्तिके ॥ सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः । नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥ वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकल्पने ॥ इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥
३20 मानमेयरहस्यश्लोकवार्तिके यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥ येऽपिचातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥ सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्या नचासीदिति कल्पना ॥ नचागमेन सर्वज्ञः, तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीमो हि ततः परम् ॥ नचापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते । विगानाच्छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् ॥ सर्वज्ञोऽसाविति ह्येव तत्काले तु बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ कल्पनीयाश्च सर्वज्ञाः भवेयुर्बहवस्तदा । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते ॥
सर्वज्ञवादः 321 सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥ रागादिरहिते बुद्धे निष्व्यापारे व्यवस्थिते । देशनाऽन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥ सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामाणेखिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ एवमाद्युच्यमानं तु श्रद्दधानस्य शोभते । कुड्यादिनिस्सृतत्वाच्च नाश्वासो देशनासु नः ॥ किंनु बुद्धप्रणीतास्स्युः किमु कैश्चिद्दुरात्मभिः । अदृश्यैर्विप्रलम्भार्थं पिशाचादिभिरीरिताः ॥ एवमेवार्हतैः ज्ञानमिन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं जीवस्य परिकल्पितम् ॥ नर्ते तदागमात्सिद्ध्येत् न च तेनागमो विना । दृष्टान्तोऽपि न तस्यान्यः नृषु कश्चित्प्रवर्तते ॥ किंच नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना । आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ॥ अतश्च संप्रदायेऽस्मिन् नैकः पुरुष इष्यते । बहवः परतन्त्रास्स्युः सर्वेऽप्यद्यत्ववन्नराः ॥ यथाच लङ्घनाभ्यासोऽवधिं नात्येति कुत्रचित् । एवं च भावनाभ्यासः सावधिस्स्यात्स्वभावतः ॥ M. R. 41
322 मानमेयरहस्यश्लोकवार्तिके 2 अत्र सर्वज्ञसिद्धान्तवादिनेयायिकादिभिः । प्रत्युक्तं विस्तरेणात्र सारांशस्त्वयमुच्यते ॥ परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलम्भबले स्थेयं तदादावेव गृह्यताम् ॥ वैशेषिकादिभिस्त्वार्षं सिद्धदर्शनमित्यपि । अलौकिकं च विज्ञानं किंचिदङ्गीकृतं यथा ॥ विद्याऽविद्याविभेदेन ज्ञानं द्विविधमिष्यते । प्रात्यक्षिकी लैङ्गिकी च स्मृतिश्चाप्यार्षलक्षणा ॥ एवं चतुर्विधा विद्या तथाऽविद्या चतुर्विधा । विपर्ययस्संशयश्च यश्चाप्यालोचनात्मकः ॥ स्यादनध्यवसायस्सः चतुर्थस्स्वप्नलक्षणः । एवं ये ऋषयस्सिद्धाः ते वै सर्वज्ञलक्षणाः ॥ मनःकरणकं ज्ञानं भावनाभ्याससंभवम् । भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ तथैव भावनाभ्यासात् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥ अस्मदादेश्च रागादिमलावरणधूसरम् ।
प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् । योगिनां तु मनश्शुद्धं कमिवार्थं न पश्यति ॥ तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥ अपिचानागतज्ञानं अस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते । नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेत् अस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ काकतालीयमिति चेत् न प्रमाणं प्रदर्शितम् । नैतत्काकतालीयमिति चाशङ्कितुं क्षमम् ॥ स्वप्नज्ञाने हि संवादोऽदृष्टेन क्वचिदिष्यते । एवं प्रकृष्टदृष्टेन किमसाध्यं भविष्यति ॥ न त्वं वेत्सि मदध्यक्षं त्वदध्यक्षं न वेद्म्यहम् । अन्याध्यक्षं पुनश्चावां नैव जानीवहे उभौ ॥ योगीन्द्रियागोचरत्वं धर्मे वेत्ति कथं भवान् । उभयस्यापरोक्षत्वान्निषेद्धुं न हि शक्यते ॥ त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥
य एव स्यादसर्वज्ञस्स सर्वज्ञं न बुद्ध्यते । इति तद्बोधबोधार्थी तन्निषेधेऽपि न क्षमः ॥ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते । इति ब्रुवाणास्सार्वज्ञ्यं लभन्तां तन्निषेधतः ॥ 3 इदं च पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् । फलाफलविचारोऽथ क्रियते संग्रहादिह ॥ जायमाने भावनयाऽप्यनया धर्मदर्शने । चोदनैवेत्येवकारः शिथिलस्त्विति तार्किकाः ॥ मीमांसकास्तु तां दृष्टिं स्मृतिरित्येव जानते । पातञ्जलाः पुनर्योंगदृष्टिमन्यां प्रचक्षते ॥ साक्षात्कुर्वन्ति मन्वाद्याः न हि धर्मं स्वरूपतः । किंतु वेदैकवेद्यत्वाकारेणेति विनिर्णयात् ॥ न चोदनालक्षणत्वशास्त्रयोनित्वयोरपि । विरोधो योगिदृष्ट्येति वेदान्ताचार्यनिर्णयः ॥ किमर्थं तर्हि वेदानां वेदान्तानां च यत्नतः । अप्राप्तविषयत्वं यद्भवदीयैस्समर्थ्यते ॥ उच्यतेऽत्रातथाप्राप्तौ साक्षादेवाप्रमाणता । तथाप्राप्तौ पुनः प्रेक्षावद्भिरालस्यशालिभिः ॥ मानान्तरमपेक्ष्येत वेदस्य त्याज्यताऽऽपतेत् । फलतोऽप्रामाण्यमेतत् इति सिद्धान्तसंग्रहः ॥
सर्वज्ञवादः 325 4 यदि प्रामाणिको योगी पुराणं च श्रुतिः स्मृतिः । तत्र मानं, नानुमानं वर्ततेऽतिप्रसङ्गतः ॥ धर्मादिविषयत्वं तु मनसो यदि शिष्यते । चक्षुरादेस्तथाभावः नेष्यते केन हेतुना ॥ यथौपनिषदस्त्वीशः नानुमानेन सिद्धयति । तथा योगी च शास्त्रेण केवलेन प्रसिद्धयतु ॥ कैश्चित्तु चक्षुषाऽनेन ब्रह्मदर्शनमिष्यते । योगजेनाचिन्त्यशक्तिधर्मेण सहकारिणा ॥ दिव्येन चक्षुषा कैश्चिद्ब्रह्मदर्शनमिष्यते । शब्दादप्यपरोक्षस्य संभवः कैश्चिदुच्यते ॥ अतीतेऽनागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपिच । प्रत्यक्षं योगिनामिष्टं कैश्चिन्मुक्तात्मनामपि ॥ वैशद्यातिशयात्कैश्चित् स्मृतेर्दर्शनरूपता । भावनाया महिम्नेष्टा समानाकारता तु सा ॥ जैमिनीयाश्शाबराश्च भाट्टाः प्राभाकरा अपि । सर्वज्ञप्रतिषेद्धारः, सौगता आर्हताः तथा ॥ कापिलाद्या दार्शनिकाः सादिसर्वज्ञवादिनः । यौगास्तार्किकमुख्याश्चानादिसर्वज्ञवादिनः ॥ स्यातामागमसर्वज्ञावनादी च प्रवाहतः । बीजाङ्कुरवदित्युक्तं सादिसर्वज्ञवादिभिः ॥
326 मानमेयरहस्यश्लोकवार्तिके ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः । तत्रापिच विवादश्चेन्नियन्ता जन्तुरत्र कः ॥ नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ (68) विज्ञानवादः. 1 अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् । संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥ योगस्य लक्षणं त्वेतत् शमथा च विपश्यना । समाधिशमधेत्युक्तः सम्यग्ज्ञानं विपश्यना ॥ ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्यां य ऊह्यते । स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥ स योगाचार इत्युक्त इति भास्करभाषितम् । शमथादिपदं प्रायः पालीभाषेति गम्यते ॥ अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् । वैशेषिकमतं चापि यौगमित्येव कीर्त्यते ॥ योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥
विज्ञानवादः 327 तथाच योगाचाराख्याः केचिद्वैशेषिका अपि । प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥ २ तद्योगाचारसिद्धान्तयुक्तयः क्रमशॊऽधुना । निरूप्यन्तेऽत्र संगृह्य विप्रकीर्णाः क्वचित्क्वचित् । नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना । लघ्व्यर्थाकारपक्षे तु न स्वतो भासते जडः ॥ तद्ग्राहकाकारता च कल्पनीयेति गौरवम् । बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥ ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता । न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥ बहिर्वदवभासोऽपि भेदवासनया कृतः । परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥ ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः । सहोपलम्भनियमाद्भेदो नीलतद्धियोः ॥ ज्ञानमेवैवमाकारमात्मना प्रथते यतः । नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥ संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः । अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥ ज्ञानं प्रकाशकं लोके ह्यप्रकाशस्य वस्तुनः । तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम्
प्रकाशकोऽप्यविदितो दीपादिर्न प्रकाशकः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ अविशेषोऽन्यथा स्वीयपरकीयोपलम्भयोः । निराकारं च विज्ञानं ग्रहीतुं नैव शक्यते ॥ प्रतिकर्मव्यवस्थाऽपि साकारत्वे प्रकल्पते । आकारसहितैवैषा धीः कारकसमुद्भवा ॥ नैवान्यथा स्याद्विषयनियमस्यावधारणा । नार्थैरेव विशेषस्तु निराकाराधियां भवेत् ॥ तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा । इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना । भवेदेवेति तत्रैव संतोषेण स्थितिः वरम् ॥ अर्थाकारो गृहीतश्चेत् ज्ञानेन स्वगतः पुनः । ज्ञानान्तरेण ग्राह्यस्स्यात् तदाऽऽकारद्वयग्रहः ॥ एवमेवाभ्युपगमे भवेदेवानवस्थितिः । तद्ग्रहस्यानपेक्षायामाद्यस्यैवाग्रहो वरम् ॥ 3 अन्योन्यसंसर्गधर्मो नाकार इति साम्प्रतम् । अनर्थजस्मृतिस्वप्नबुद्धिष्वाकारदर्शनात् ॥
ज्ञानं स्वच्छं हि चिन्मात्ररूपं चाप्यविलक्षणम् । तस्य नीलादिभेदस्तु वासनैकनिबन्धनः ॥ अत एव तुरीये तद्वासनोच्छेदसंभवे । सच्चिन्मात्रैकरूपेण विज्ञानमवभासते ॥ 4 वासना नाम ताद्रूप्यं बीजपूरसुमादिवत् । पूर्वमात्मस्वरूपेण चोत्तरं जनयेत्सदा ॥ उत्तरं वास्यत इति पूर्वं वासयतीत्यपि । व्यवहारः परं सर्वं सर्वात्मकमिति स्थितम् ॥ अपि सर्वं च विज्ञानं सर्वाकारं तथाऽपिच । कदाचित्कुत्रचित्काचित् वासनाऽर्थक्रियां क्रियात्॥ यथा परेषां संस्कारः कश्चित्कांचित् स्मृतिं क्रियात् यथा च शब्दः सर्वार्थः बोधकोऽर्थस्य कस्य चित् ॥ न संवितेस्सत्तयैव युक्ता विषयवेदना । तस्यास्सर्वत्राविशेषादविशेषप्रसङ्गतः ॥ ग्राह्यलक्षणतादात्म्यात्तत्सरूपयितुं क्षमम् । ततश्च ज्ञानवैचित्र्यं समनन्तरसात्कृतम् ॥ 5 ग्राह्यलक्षणयोगाच्च ग्राहकान्न विभिद्यते । विधान्तरासंभवेन तादात्म्यं ग्राह्यलक्षणम् ॥ ग्राह्यत्वं यदि हेतुत्वं ग्राह्यं स्याच्चक्षुराद्यपि । आकारार्पणयोग्यत्वं नीलादौ न हि निश्चितम् ॥ M.R. 42