मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 369, कुल 672 में से
संदर्भ में पढ़ेंविज्ञानवादः 327 तथाच योगाचाराख्याः केचिद्वैशेषिका अपि । प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥ २ तद्योगाचारसिद्धान्तयुक्तयः क्रमशॊऽधुना । निरूप्यन्तेऽत्र संगृह्य विप्रकीर्णाः क्वचित्क्वचित् । नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना । लघ्व्यर्थाकारपक्षे तु न स्वतो भासते जडः ॥ तद्ग्राहकाकारता च कल्पनीयेति गौरवम् । बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥ ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता । न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥ बहिर्वदवभासोऽपि भेदवासनया कृतः । परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥ ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः । सहोपलम्भनियमाद्भेदो नीलतद्धियोः ॥ ज्ञानमेवैवमाकारमात्मना प्रथते यतः । नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥ संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः । अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥ ज्ञानं प्रकाशकं लोके ह्यप्रकाशस्य वस्तुनः । तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम्