मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 368, कुल 672 में से
संदर्भ में पढ़ें326 मानमेयरहस्यश्लोकवार्तिके ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः । तत्रापिच विवादश्चेन्नियन्ता जन्तुरत्र कः ॥ नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ (68) विज्ञानवादः. 1 अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् । संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥ योगस्य लक्षणं त्वेतत् शमथा च विपश्यना । समाधिशमधेत्युक्तः सम्यग्ज्ञानं विपश्यना ॥ ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्यां य ऊह्यते । स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥ स योगाचार इत्युक्त इति भास्करभाषितम् । शमथादिपदं प्रायः पालीभाषेति गम्यते ॥ अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् । वैशेषिकमतं चापि यौगमित्येव कीर्त्यते ॥ योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥