भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 365, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 365

प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् । योगिनां तु मनश्शुद्धं कमिवार्थं न पश्यति ॥ तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥ अपिचानागतज्ञानं अस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते । नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेत् अस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ काकतालीयमिति चेत् न प्रमाणं प्रदर्शितम् । नैतत्काकतालीयमिति चाशङ्कितुं क्षमम् ॥ स्वप्नज्ञाने हि संवादोऽदृष्टेन क्वचिदिष्यते । एवं प्रकृष्टदृष्टेन किमसाध्यं भविष्यति ॥ न त्वं वेत्सि मदध्यक्षं त्वदध्यक्षं न वेद्म्यहम् । अन्याध्यक्षं पुनश्चावां नैव जानीवहे उभौ ॥ योगीन्द्रियागोचरत्वं धर्मे वेत्ति कथं भवान् । उभयस्यापरोक्षत्वान्निषेद्धुं न हि शक्यते ॥ त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥