मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 364, कुल 672 में से
संदर्भ में पढ़ें322 मानमेयरहस्यश्लोकवार्तिके 2 अत्र सर्वज्ञसिद्धान्तवादिनेयायिकादिभिः । प्रत्युक्तं विस्तरेणात्र सारांशस्त्वयमुच्यते ॥ परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलम्भबले स्थेयं तदादावेव गृह्यताम् ॥ वैशेषिकादिभिस्त्वार्षं सिद्धदर्शनमित्यपि । अलौकिकं च विज्ञानं किंचिदङ्गीकृतं यथा ॥ विद्याऽविद्याविभेदेन ज्ञानं द्विविधमिष्यते । प्रात्यक्षिकी लैङ्गिकी च स्मृतिश्चाप्यार्षलक्षणा ॥ एवं चतुर्विधा विद्या तथाऽविद्या चतुर्विधा । विपर्ययस्संशयश्च यश्चाप्यालोचनात्मकः ॥ स्यादनध्यवसायस्सः चतुर्थस्स्वप्नलक्षणः । एवं ये ऋषयस्सिद्धाः ते वै सर्वज्ञलक्षणाः ॥ मनःकरणकं ज्ञानं भावनाभ्याससंभवम् । भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ तथैव भावनाभ्यासात् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥ अस्मदादेश्च रागादिमलावरणधूसरम् ।