मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 355, कुल 672 में से
संदर्भ में पढ़ेंस्वयंप्रकाशवादः व्यवहारो हि जगति भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते । सामान्यतो निश्चिते हि विशेषः स्याद्बुभुत्सितः कृतकक्षणिकानेकं ज्ञानमात्मेति केचन ॥ नित्यस्थिरैकविज्ञानमात्मानमपरे विदुः । विधाभेदे विवादोऽयं धर्मी तूभयसम्मतः ॥ धर्मधर्म्यैक्यवादे तु विवादोऽनवकाशभाक् । तदर्थमेव तादात्म्यं केचिदिच्छन्ति सूरयः ॥ प्रकाशं विषयत्वं च विभिन्नं ये विदुर्बुधाः । संविदः स्वप्रकाशेऽपि वेद्यतां तां न मन्वते ॥ विषयत्वं प्रकाशं च ये त्वनर्थान्तरं विदुः । संविदन्तरसंवेद्यामप्याहुस्संविदं तु ताम् ॥ अन्यथा गुरुशिष्यादेः सर्वलौकिकसम्मतः । व्यवहारो विलुप्येत प्राज्ञाज्ञायविनिश्चयात् ॥ स्वसत्तयैव प्रकाशमानत्वमनुभूतिता । इति संवित्स्वप्रकाशवादिज्ञानत्वनिर्णयः ॥ वर्तमानदशायां स्वसत्तयैवाश्रयं प्रति । प्रकाशमानत्वमनुभूतित्वमिति केचन ॥ सत्तयैव स्वविषयसाधनत्वमितीतरे । परप्रकाशविज्ञानवादिनैयायिकादयः ॥ M.R. 40