मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 354, कुल 672 में से
संदर्भ में पढ़ें312 मानमेयरहस्यश्लोकवार्तिके अतीन्द्रियजडज्ञानवादिनो ये कुमारिलाः । दुरुद्धरा वागुरेयं तेषामिति परे विदुः ॥ 3 नचोपलभते कश्चिदज्ञातेऽर्थे धियं क्वचित् । ज्ञातेऽनुमानाज्जानीत इत्याह शबरस्स्वयम् ॥ 4 इदं संवेद्म्यहमिति कर्मकर्तृकरम्बितम् । उपलब्धं समाश्रित्य धीराः तस्य स्वभासताम्। अङ्ग्यकार्षुस्सौगताद्या अपि नातोऽनवस्थितिः । सर्वं ज्ञानाधीनसिद्धि व्यवहाराय कल्पते ॥ ज्ञानं चापश्यतां सर्वशून्यत्वाद्बिभ्यतां सताम् । गतिः स्वयंप्रकाशत्वाहते नान्योपलभ्यते ॥ 5 ज्ञानाज्ञानेऽपि विषयव्यवहारं विदुः परे । घटोऽयमिति विज्ञाने घटमात्रं हि भासते ॥ अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ इत्याहुरथचात्रैव केचित्स्वायम्भुवादयः । नतु चित्तं स्वप्रकाशं न चित्तान्तरसिद्धयपि ॥ सर्वं सवृत्तिकं चित्तं साक्षिवेद्यं सदा स्थितम् । सर्वोपपत्तिरेतस्मिन् सिद्धान्त इति मन्वते ॥ तमेव पक्षं प्रायेण तथौपनिषदा अपि । आश्रित्य निर्वहन्त्यत्र व्यवहारं हि साक्षिणा ॥