भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 361, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 361

प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः । तदाऽन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ॥ पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी । तस्मात्पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥ साऽपि प्रागुक्तयोगीन्द्रप्रत्यक्षेऽन्तर्भवत्यसौ । इति तस्मान्न प्रमाणमतिरिक्तं तदिष्यते ॥ (67) सर्वज्ञवादः 1 अथ बुद्धागमादीनां धर्मप्रामाण्यशङ्कया । सर्वसर्वज्ञविद्वेषि मीमांसकमतं त्विदम् ॥ शाक्यार्हतार्षभेदेन सर्वज्ञास्त्रिविधाःश्रुताः । स्वसार्वज्ञ्याय ते सर्वे निरस्ताः श्लोकवार्तिके ॥ सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः । नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥ वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकल्पने ॥ इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥