मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 371, कुल 672 में से
संदर्भ में पढ़ेंज्ञानं स्वच्छं हि चिन्मात्ररूपं चाप्यविलक्षणम् । तस्य नीलादिभेदस्तु वासनैकनिबन्धनः ॥ अत एव तुरीये तद्वासनोच्छेदसंभवे । सच्चिन्मात्रैकरूपेण विज्ञानमवभासते ॥ 4 वासना नाम ताद्रूप्यं बीजपूरसुमादिवत् । पूर्वमात्मस्वरूपेण चोत्तरं जनयेत्सदा ॥ उत्तरं वास्यत इति पूर्वं वासयतीत्यपि । व्यवहारः परं सर्वं सर्वात्मकमिति स्थितम् ॥ अपि सर्वं च विज्ञानं सर्वाकारं तथाऽपिच । कदाचित्कुत्रचित्काचित् वासनाऽर्थक्रियां क्रियात्॥ यथा परेषां संस्कारः कश्चित्कांचित् स्मृतिं क्रियात् यथा च शब्दः सर्वार्थः बोधकोऽर्थस्य कस्य चित् ॥ न संवितेस्सत्तयैव युक्ता विषयवेदना । तस्यास्सर्वत्राविशेषादविशेषप्रसङ्गतः ॥ ग्राह्यलक्षणतादात्म्यात्तत्सरूपयितुं क्षमम् । ततश्च ज्ञानवैचित्र्यं समनन्तरसात्कृतम् ॥ 5 ग्राह्यलक्षणयोगाच्च ग्राहकान्न विभिद्यते । विधान्तरासंभवेन तादात्म्यं ग्राह्यलक्षणम् ॥ ग्राह्यत्वं यदि हेतुत्वं ग्राह्यं स्याच्चक्षुराद्यपि । आकारार्पणयोग्यत्वं नीलादौ न हि निश्चितम् ॥ M.R. 42