मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 374, कुल 672 में से
संदर्भ में पढ़ें-32 मानमेयरहस्यश्लोकवार्तिके आकारद्वयसंवित्तिविरहान्न च दीपवत् । घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् ॥ न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः । उट्टङ्कितोऽसौ दीपादिदृष्टान्तश्चक्षुरादिना ॥ त्रयः प्रकाशकाः दीपधीशब्दाः स्वप्रकाशकाः । इत्युक्तं तत्र शब्दः समयग्रहपूर्वकम् ॥ अर्थं प्रकाशयत्यात्मग्रहे श्रोत्रमपेक्षते । दीपोऽपि चक्षुषा ग्राह्यः ग्राहयत्यर्थमञ्जसा ॥ इयान् विशेषः कुम्भादौ चक्षुरालोकमिच्छति । आलोकग्रहणे तेन निरपेक्षमिति स्थितम् ॥ एतावत्तैव दीपस्य न भवेत्स्वप्रकाशता । स्यादन्यथा घटस्यापि बैडालाक्ष्याद्यपेक्षया ॥ तस्मात् ज्ञानं नाम वस्तु परस्यैव प्रकाशकम् । दृश्यते न स्वप्रकाशमिति न्यायविदां मतम् ॥ 3 या चोपजनिता यस्मात्कर्मकारकतः मतिः । तादृग्विषयनैयत्यवती सा व्यवतिष्ठते ॥ अयं च नियमो वस्तुस्वभावैकनिबन्धनः । समः पर्यनुयोगोऽयं ज्ञानाकारमतेऽपि ते ॥ अन्वयव्यतिरेकाभ्यामर्थः स्याज्जनको धियाम् । अपि प्रवृत्तिर्व्याख्याता ततो नियतगोचरा ॥