मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 375, कुल 672 में से
संदर्भ में पढ़ेंविज्ञानवादनिरासः नीलपीतादिविषयाः सर्वसाधारणा मताः । तेषां विज्ञानरूपत्वेऽसाधारण्यं प्रसज्यते ॥ नर्तकीभ्रूलताक्षेपः न ह्येकः पारमार्थिकः । परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ साधारण्यस्योपपत्तिरित्थं या चोपवर्णिता । न्यायवार्तिकतात्पर्यटीकायां सा प्रतीरिता ॥ 4 अभेदपक्षे सुदृढसहार्थानुपपत्तिः । सहोपलम्भनियमोऽसिद्धः हेतुस्त्वदीरितः ॥ सहधीरेकसामग्रीवेद्यत्वेनेष्यते क्वचित् । तावन्मात्रेण चैकत्वे व्यवहारो विरुध्यते ॥ नीलग्रहणवेलायां ग्राहको नैव गम्यते । ग्राह्यमात्रावभासोऽयमिदं नीलमिति ग्रहः ॥ न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हि । ग्राह्याकारानुपश्लिष्टः ग्राहकोऽप्यवमृश्यते ॥ ग्राह्यग्रहणतादात्म्यं शशशृङ्गाद्यसद्ग्रहे । अस्तिचेद्व्याहतिः नो चेत् व्यभिचारस्सुदुस्तरः ॥ किंच सर्वज्ञसंवित्तौ सर्वाकारानुबन्धतः । सर्वस्वभावता वा स्यान्निस्स्वभावत्वमेव वा ॥ इत्थं विभक्तज्ञानार्थाकारसंवेदनात्कथम् । एकोपलम्भनियमादभेदोक्तिर्न साहसम् ॥