मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 377, कुल 672 में से
संदर्भ में पढ़ेंविज्ञानवादनिरासः 335 किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किंवा न शमयत्येषा कामिनो मदनज्वरम् ॥ कुणपात्केन रूपेण योगिनः सा विशिष्यते । धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥ या प्रतिप्राणि नियता विविधा सहकारिणी । वासना तदपेक्षः स्यात् आत्मलाभो धियां पुनः॥ स्वप्रत्ययानुकारोऽपि बह्वाकारेषु वस्तुषु । निर्धारणे भवेद्धेतुः नापूर्वाकारकल्पने ॥ तथैव तदुपेतव्यं यद्यथैवोपलभ्यते । न चार्थरूपात् भेदेन धियामस्ति निरूपणम् ॥ तस्माद्देशादिसद्भावनिमित्तैः प्रत्ययैः पृथक् । वस्त्वाकाराः प्रतीयेरन् उद्भवाभिभवात्मकाः ॥ हेतुश्चेद्वासनाभेदः विविधप्रतिभोद्भवे । तेनैव सर्वनिर्वाहे किमर्थः परिकल्प्यते ॥ न ह्यर्थः कल्प्यते किं तु क्लृप्त एवावभासते । बहुरूपस्य चार्थस्य त्वेकरूपत्वभासने ॥ कल्प्यते कारणं किंचिन्नियतं वासनादिकम् । भवन्मते वासनायाः ज्ञानरूपत्वमिष्यते ॥ न हि स्वच्छे च विज्ञाने किंचित्कालुष्यकारणम् । अतिरेके तु पर्यायात्सोर्थ एव विनिश्चितः ॥