मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 378, कुल 672 में से
संदर्भ में पढ़ें३३६ मानमेयरहस्यश्लोकवार्तिके
पदार्थसमसंख्याकाः स्वीकार्या एव वासनाः। नहि गोवासनाभेदादुदेतुं हस्तिधीरलम् ॥ निरन्वयविनाशाच्च न तदंशोऽनुवर्तते । यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ तस्मात्प्रतीतिशरणा पदार्थानां व्यवस्थितिः । प्रतीतिनिह्नवे सर्वन्निह्नवात्स्वार्थनिह्नवः ॥ 7 विषयाणां मिथो भेदो यदि स्याद्बुद्धिभेदतः । बुद्धिभेदोऽपि विषयभेदादिति कथं भवेत् ॥ बुद्धयो विषयाश्चैव स्वतएव परस्परम् । भिन्नाः किन्त्वर्थभेदोऽयं बुद्धिभिः ज्ञायते स्वयम् ॥ अतः प्रत्यक्षबुद्धेस्सः कारणं विषयात्मना । इति स्वीकुर्वते प्राज्ञाः तस्मान्नान्योन्यसंश्रयः ॥ अर्थस्य बुद्धिहेतुत्वमन्वयव्यतिरेकतः । सिद्ध्यतीत्यत्र विज्ञेया प्रसिद्धोदाहृतिः पुनः ॥ यदाहि देवदत्तार्थी कश्चिद्गच्छति तद्गृहम् । तत्रासन्निहितं चैनं गत्वाऽपि स न पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते । तत्र तत्सदसत्त्वेन तथात्वमवगम्यते ॥ 8 क्षणभेदश्च सन्तानभेदो ज्ञानान्तरेण चेत् । गृहीतश्चागृहीतश्चानिष्टो विज्ञानवादिनाः ॥