मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 379, कुल 672 में से
संदर्भ में पढ़ेंविज्ञानवादनिरासः 33 ज्ञानान्तरेण ज्ञानेषु गृह्यमाणेष्वसंभवि । तादात्म्यं तत्र यः पन्थाः सर्वत्रापि स एव नः । यदि त्वनागतातीतज्ञानग्राहिषु चैकता । अनागतमतीतं वा स्वयं स्यात्किं ग्रहीष्यति ॥ तर्ह्येकक्षणशेषो वा नित्यैका संविदेव वा । स्वीक्रियेत स्वसिद्धान्तोऽप्यर्थायोगान्न सिद्ध्यति । अथ बोधेन तादात्म्ये नृशृङ्गाद्यपि सङ्गवेत् । किंच बोध्येन तादात्म्ये कुशली मध्यमागमः ॥ मिथोविरुद्धैः युगपत् ज्ञातैः बुद्धेस्तदात्मता । कथं स्यात् बोध्यतादात्म्यानुपपत्तिपराहता ॥ अथ बोध्यस्य मिथ्यात्वात्तादात्म्यमुपचर्यते । तदा सहोपलम्भादिहेतवः नहि साधकाः ॥ वेदान्ताद्वैतसिद्धान्तेऽप्यभेदो नहि साध्यते । भेदो व्यासिद्ध्यत इति भाष्यभामत्युदीरितम् ॥ भेदमात्रापह्नवस्तु त्रय्यन्ताद्वैतवादिनाम् । भिद्यमानापह्नवस्तु स्याद्वाह्याद्वैतवादिनाम् ॥ किंचासद्विषया सर्वा बुद्धिर्यद्युपगम्यते । ज्ञानमेकं सत्यमिति बुद्धबुद्धिरपीदृशी ॥ तदप्यस्त्वितिचेत्सर्वा धीर्मृषेत्यापि धीर्मृषा । तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते ॥ M.R. 43