मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 380, कुल 672 में से
संदर्भ में पढ़ें338 मानमेयरहस्यश्लोकवार्त्तिके 9 चिन्तनीयमिदं चात्र परीक्षकविशोधितम् । विज्ञानवादसर्वस्वं केवलं सूक्ष्मया दृशा ॥ ज्ञानाकारात्मके लोके बाह्याकारविकल्पना । अपरस्सोऽपि विज्ञानाकार एवेति निर्णयः ॥ पञ्चभूतात्मके लोके यद्यद्वस्तूपजायते । तावद्भूतात्मकं सर्वं न च किंचिदभौतिकम् ॥ सौवर्णमेरुसंभूतं नादुर्वर्णं कथं भवेत् । ज्ञानात्मके प्रपञ्चेऽस्मिन् दुर्लङ्घा ज्ञानवागुरा ॥ इति विज्ञानवादस्य मूलं विज्ञानवासना । वासना चेत् ज्ञानशक्तिः ज्ञानमेवावशिष्यते ॥ वासना बाह्यशक्तिश्चेत् बाह्यमेवावशिष्यते । यदि चोभयशक्तिस्स्यादुभयं चैव सिद्धयति ॥ आन्तरं बाह्यमित्येवं व्यवहारो हि वासना । यथैव वासितो जन्तुः तथैव प्रतिपद्यते ॥ विद्या च पूर्वप्रज्ञा च श्रद्धा संस्कारकर्मणी । आत्मनो रूपमेतत्स्यात्तथा काममयः पुमान् ॥ 70 क्षणभङ्गवादनिरासः. 1 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः । गृह्यतां क्षणभङ्गत्वं परवैराग्यकारणम् ॥