भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 381, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 381

क्षणभङ्गवादनिरासः ३३ प्रत्यभिज्ञाप्रमाणेन वस्तूनां स्थैर्यमिष्यते । प्रत्यभिज्ञा नाम केयमिति स्पष्टं निरूप्यताम् ॥ स एवायं घट इति ज्ञानमेकमुत द्वयम् । संस्कारमात्रजन्यं यद्विज्ञानं स्मरणं तु तत् ॥ इन्द्रियादिप्रमाणोत्थं ज्ञानं त्वनुभवो मतः । प्रत्यभिज्ञा त्विन्द्रियेण जन्यं संस्कारसाह्यतः ॥ अयमेकत्वसिद्धान्तः द्वित्वसिद्धान्त उच्यते । ज्ञानद्वयं प्रत्यभिज्ञा स्मरणानुभवात्मकम् ॥ वक्तव्यं कारणं तत्र यद्येकत्वमुपेयते । स्मृतौ हेतुर्हि संस्कारोऽनुभवे हेतुरिन्द्रियम् ॥ उभाभ्यां च न सम्भूय तज्ज्ञानमुपजन्यते । पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः । स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥ यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती । न तुल्यविषये तद्वदेते अपि भविष्यतः ॥ यद्वा भवतु नामेदं एकमेव हि वेदनम् । तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥ अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते । अनागतविशिष्टं चेत् संकल्पप्रायमेव तत् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 381, कुल 672 में से · BharatKosha