मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
क्षणभङ्गवादनिरासः ३३ प्रत्यभिज्ञाप्रमाणेन वस्तूनां स्थैर्यमिष्यते । प्रत्यभिज्ञा नाम केयमिति स्पष्टं निरूप्यताम् ॥ स एवायं घट इति ज्ञानमेकमुत द्वयम् । संस्कारमात्रजन्यं यद्विज्ञानं स्मरणं तु तत् ॥ इन्द्रियादिप्रमाणोत्थं ज्ञानं त्वनुभवो मतः । प्रत्यभिज्ञा त्विन्द्रियेण जन्यं संस्कारसाह्यतः ॥ अयमेकत्वसिद्धान्तः द्वित्वसिद्धान्त उच्यते । ज्ञानद्वयं प्रत्यभिज्ञा स्मरणानुभवात्मकम् ॥ वक्तव्यं कारणं तत्र यद्येकत्वमुपेयते । स्मृतौ हेतुर्हि संस्कारोऽनुभवे हेतुरिन्द्रियम् ॥ उभाभ्यां च न सम्भूय तज्ज्ञानमुपजन्यते । पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः । स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥ यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती । न तुल्यविषये तद्वदेते अपि भविष्यतः ॥ यद्वा भवतु नामेदं एकमेव हि वेदनम् । तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥ अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते । अनागतविशिष्टं चेत् संकल्पप्रायमेव तत् ॥
340 मानमेयरहस्यश्लोकवार्तिके वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थिरम् । कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥ परस्परपरित्यागव्यवस्थितनिजात्मनाम् । एकत्र न समावेशः कथंचिदुपपद्यते ॥ स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता । क्षणिकत्वेऽपि कथिता कार्यकारणभावतः ॥ 2 क्षणभङ्गानुमानं च क्षणवादे निरूपितम् । तन्निरासांशसारोऽत्र संक्षिप्य प्रतिपाद्यते ॥ अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादौ व्यभिचारावधारणात् ॥ किंत्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । क्वचिच्च कालदेशादिनिबन्धनमपीष्यते ॥ अर्थक्रियासमर्थस्य तदुत्थं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वात् न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपिहि । क्रमेण युगपद्वापि न कार्यकारणे क्षमः ॥ क्षणिकस्य क्रमः कीदृक् युगपत्करणे पुनः । एकवस्त्वात्मकस्यापि रूपभेदः प्रसज्यते ॥ कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥
क्षणभङ्गवादनिरासः 341 देशकालविकल्पेऽपि क्षणस्य क्षुण्णता भवेत् । स्थिते हि वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते ॥ ३ क्षणिकत्वे पदार्थानां कारणत्वं च दुर्ग्रहम् । सर्वथा परनिष्पत्तौ निर्व्यापारो न कारणम् ॥ पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये । उत्तरस्यानिमित्तत्वात् उत्पत्तिर्नोपपद्यते ॥ अत्यन्तासन्नसौ तस्मिन् न तावद्व्यापृतिक्षमः । स्वयं चाभावदृष्टत्वात् कस्मिन् काले करिष्यति ॥ नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात्परस्परम् । न कार्यकारणत्वे स्तः तद्व्यापाराननुग्रहात् ॥ न ह्यलब्धात्मकं वस्तु पराङ्गत्व्याय कल्पते । तस्मात्प्राक्कार्यनिष्पत्तेः व्यापारो यत्र दृश्यते । तदेव कारणं तस्य न त्वानन्तर्यमात्रकम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥ सत्त्वादक्षणिकत्वस्य सिद्धेर्हेतुर्विरुध्यते । एवं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ॥ अत एव च कार्याणां युगपन्न समुद्भवः । न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥ प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो मतः । सर्वत्र सुखदुःखादिहेतोस्समुपपादनात् ॥
342 मानमेयरहस्यश्लोकवार्तिके
समर्थत्वासमर्थत्वविकल्पेऽतिप्रसङ्गतः । सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् । विनश्वरस्वभावेति यदुक्तं तत्र चिन्त्यताम् । जायमानस्वभावत्वे कृतं जननहेतुभिः ॥ नाजायमानभावेऽपि कर्तुं शक्यो नृशृङ्गवत् । तस्मात्स्वभावयोगेऽपि व्यवस्था सहकारिभिः ॥ 5 स एवायमिति ज्ञानं प्रत्यभिज्ञेति कीर्त्यते । यः पूर्वमासीत्कुम्भादिः सोऽस्तीदानीमपीति हि अतीतकालवानर्थः तद्बुद्धाववभासते । भूतः कालो भूततया विषयीक्रियते तथा ॥ अतीतस्येन्द्रियज्ञाने कथं विषयतेति चेत् । शतमाम्रान् बभक्षेति कथमत्र प्रतीयते ॥ अतीतैकोनशतकरसालफलगोचरा । यथा तथाऽतीतकालयोगोऽपि प्रतिभासताम् ॥ प्रतिभाससमारूढः प्रत्यभिज्ञायते यदा । तदेन्द्रियार्थसंसर्गाच्चैका धीरुपजायताम् ॥ अथवा प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्धिवत् । तच्चैकं मानसं ज्ञानं पूर्वज्ञानविशेषिते ॥ अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् । न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥
क्षणभङ्गवादनिरासः 343 6 सद्यो जातस्य हि शिशोः मुखोल्लासादिहेतुभिः । हर्षशोकादियोगश्च भवतीत्यनुमीयते ॥ तस्मान्मुखविकासादेः हर्षादिः तस्य हि स्मृतिः । स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥ तस्मात् स्मृतिप्रत्यभिज्ञाप्रामाण्यात् जगतः स्थितिः न तत्प्रामाण्यसंत्यागी लौकिको नाप्यलौकिकः ॥ सहकारिविशेषस्य सन्निधेरप्यसन्निधेः । करणाकरणे स्यातां तौ च कालविभेदतः ॥ कालद्वयविरोधस्तु स्वव्यपेक्षानिबन्धनः । अन्यापेक्षौ च तौ पूर्वापरौ संभवतस्सदा ॥ अतत्तामनिदंतां च तत्त्वेदंत्वे निरस्यतः । अन्योन्यप्रतिषेधस्तु न ततस्सेद्धुमर्हति ॥ एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि । तथा स्याद्भिन्देशाभ्यां पुञ्जसिद्धिविरुध्यते ॥ पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा । न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनेः ॥ न वैजात्यं विना तत्स्यात् न तस्मिन्ननुमा भवेत् । विना तेन न तत्सिद्धं नाध्यक्षं निश्चयं विना ॥ 7 अत्र केचित् क्षणविदः सत्त्वाख्यं साधनं पुनः । नित्यतत्त्वोपदेशेन भवेदागमबाधितम् ॥
344 मानमेयरहस्यश्लोकवार्तिके तच्च शून्यं तत्त्वमिति मत्वा हेत्वन्तरं विदुः । तदेतद्ध्रुवभावित्वं ध्वंसस्य प्राङ्निरूपितम् ॥ ततश्च सर्वभावानां क्षणिकत्वं व्यवस्थितम् । तदेतद्ध्रुवभावित्वं विकल्पासहमित्यपि ॥ न्यायसिद्धाञ्जनग्रन्थे विस्तरेण निरूपितम् । इति ज्ञानप्रसङ्गेन क्षणभङ्गो निरूपितः ॥ अनिर्वाच्यमनित्यं च क्षणिकं चेति भेदतः । विदुः प्रपञ्चं विबुधाः तथाऽन्येऽप्यन्यथा विदुः ॥ सर्वे ते प्रतिषेद्धारः स्थिरतां रागकारिणीम् । व्यतिरेकदृशां सर्वमेकस्मिन् पर्यवस्यति ॥ 8 बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः ॥ इति पद्यं गौतमेन न्यायसूत्रे निराकृतम् । प्रमाणतोऽर्थोपलब्धेरिति, तद्भाष्यसंग्रहः ॥ बुद्ध्या विवेचनादेव भावयाथात्म्यनिर्णयः । यदस्ति च यथा चेति यन्नास्ति च यथा चवा ॥ सर्वं प्रमाणबलतः उपलब्ध्याैव सिद्धयति । प्रमाणतो योपलब्धिः सा स्याद्बुद्ध्या विवेचनम्। तेनैव सर्वशास्त्राणि सर्वकर्माणि देहिनाम् । सर्वे च व्यवहारास्स्युर्व्याप्तास्तत्सर्वसाक्षिकम् ॥
प्रत्यक्षवादः 34 परीक्षमाणो भावांस्तु विद्वान् बुद्ध्याऽध्यवस्यति इदमस्ति तथा चेदं नास्तीति निरुपद्रवम् ॥ सर्वभावास्स्वभावास्स्वभिलप्या इति स्थितम्। एवं क्रमेण प्रायेण सौगताः प्रत्यवस्थिताः ॥ (71) प्रत्यक्षवादः. 1 अथ प्रमाणभेदानां विचारोऽत्र प्रवर्तते । प्रत्यक्षस्य च तत्रादौ विकल्पः प्रविभज्यते ॥ अक्षं प्रतिगतं यत्र सा धीः प्रत्यक्षमुच्यते । तां हि चक्षुः जनकतासम्बन्धेनानुगच्छति ॥ विषयेऽपि प्रतिगतमक्षं तेनेत्थमुच्यते । प्रत्यक्षः पुरुषः योषा प्रत्यक्षेति बुधैरिह ॥ इन्द्रिये संनिकर्षे वा तत्सम्बन्धात्प्रयुज्यते । न च युक्तोऽव्ययीभाव इत्याह न्यायमञ्जरी ॥ 2 प्रत्यक्षमेवानुभव इति लौकायतं मतम् । परोक्षमनुमित्यादिज्ञानं स्मृतिसमुच्चयः ॥ अनुमानं स्मृतिः प्रत्युत्पन्नकारणसंभवा । इति प्राभाकराः प्राहुरित्यपि ज्ञायते क्वचित् ॥ परोक्षमेव विज्ञानं तद्धि स्यादानुमानिकम् । प्रत्यक्षमेव नास्तीति सौत्रान्तिकमुखा विदुः ॥ M.R. 44
346 मानमेयरहस्यश्लोकवार्तिके प्रत्यक्षं च परोक्षं चानुभवद्वितयं परे । वैभाषिकं मतं त्वेतद्वैशेषिकमपि स्मृतम् ॥ प्रत्यक्षं च परोक्षं चापरोक्षमिति च त्रिधा । मानं विभज्य स्वात्मानमपरोक्षं विदुः परे ॥ कल्पनापोढमभ्रान्तं प्रत्यक्षं तच्चतुर्विधम् । आद्यमिन्द्रियजं तादृङ्मनोजातं द्वितीयकम् ॥ इन्द्रियोत्थं निर्विकल्पं मन इत्युच्यते हि तैः । अनन्तरप्रत्ययोऽपि संपूर्वस्स हि कथ्यते ॥ आत्मसंवेदनं चित्तचैत्तानां स्यात्तृतीयकम् । भावनाबलजं योगिज्ञानं तुर्यं प्रकीर्तितम् ॥ इति वैभाषिकैकान्तः न्यायबिन्दादिषु स्थितः । बाह्यमाभ्यन्तरं चेति द्विधा तदिति तार्किकाः ॥ लौकिकं चालौकिकमित्युभयं द्विविधं मतम् । लौकिकं षड्विधं ज्ञेयं त्रिविधं स्यादलौकिकम् ॥ 3 तत्प्रत्यक्षं निर्विकल्पं सविकल्पमिति द्विधा । अलौकिकं स्मृतिर्वाऽनुमानं वा वेदविन्मतम् ॥ मनसा युज्यते ह्यात्माऽथेन्द्रियेण मनस्तथा । अर्थेन चेन्द्रियं तस्मात्प्रत्यक्षं न्यायविन्मतम् ॥ सामान्यं वा विशेषो वा किं स्यात्प्रत्यक्षगोचरः । इत्यत्रापि विकल्पोऽस्ति प्रसङ्गात्किंचिदुच्यते ॥
प्रत्यक्षवादः 347 विशेषमात्रविषयं निर्विकल्पकमेव तत् । प्रत्यक्षमिति ते प्राहुः ये वैभाषिकसौगताः ॥ सामान्यविषयं यत्स्यात् तत्परोक्षमितीर्यते । अतः प्रमाणद्वितयं प्रमेयमपि च द्विधा ॥ स विशेषो निर्विकल्पविषयः यत्स्वलक्षणम् । स्वतः स्वभिन्नात्सर्वस्माद्व्यावृत्तं हि स्वलक्षणम् ॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते यद्यप्यपोहनिर्मुक्ते न वृत्तिश्शब्दलिङ्गयोः । युक्ता तथाऽपि बुद्धिस्तु ज्ञातुः वस्त्ववलम्बते ॥ अनादिवासनादोषात् व्यवहारव्यवस्थितिः । परीक्षकपरीक्षायामपोहे पर्यवस्यति ॥ सामान्यमात्रविषयं प्राहुस्सन्मात्रवादिनः । महासामान्यमेतत्तु द्रव्यं ब्रह्मेति कीर्त्यते ॥ सविकल्पकमेवैकं प्रत्यक्षं न द्विधा मतम् । शब्दानुवेधात्सर्वत्र तादृशं हीति शाब्दिकाः ॥ न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ 4 अथ तार्किकसिद्धान्ते तत्स्वरूपपरिष्कृतिः । विशेष्यत्वप्रकारत्वसंसर्गत्वाभिधैः त्रिभिः ॥
348 मानमेयरहस्यश्लोकवार्तिके विषयत्वैर्निरूप्यं यत्तदेव सविकल्पकम् । विशिष्टविषयं ज्ञानं सविकल्पकमुच्यते ॥ विशेषणं विकल्पश्च प्रकारश्च समार्थकाः । निर्विकल्पकशब्दोऽतो निर्विशेषार्थवाचकः ॥ तुरीया या विषयता तस्या यत्स्यान्निरूपकम् । तन्निर्विकल्पकं ह्युक्तं अविशिष्टार्थगोचरम् ॥ व्यवसायात्मकाध्यक्षवादिनो न्यायवेदिनः । यः कल्पनाध्यक्षवादः स तु सौगतसम्मतः ॥ तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः । स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥ क्वचिज्जातिः क्वचिद्द्रव्यं क्वचित्कर्म क्वचिद्गुणः । यदेव सविकल्पेन निर्विकल्पेन तत्पुरा ॥ गृह्यते नियमेनैवं क्वचिद्दोषाद्भ्रमोदयः । तिमिराशुभ्रमणनौयानक्षोभादिसंभवम् ॥ दिमृगाङ्कालातचक्रचलवृक्षादिदर्शनम् । जात्यखण्डोपाधिभिन्नं किंचिद्रूपेण भासते ॥ स्वरूपतश्च जात्यादिः प्रकारत्वेन भासते । जातिः द्रव्यत्वादिरूपाऽभावत्वादिरनन्तरः ॥ अतीन्द्रियं निर्विकल्पमनुमानेन गृह्यते । विशेषणज्ञानपूर्वा प्रसिद्धा हि विशिष्टधीः ॥
प्रत्यक्षवादः 34 . न प्रमा न भ्रमश्चेदमित्यप्यस्ति विनिर्णयः । प्रकारतादिशून्यं तत् संबन्धानवगाहि च ॥ संबद्धं वर्तमानं च गृह्यते चक्षुरादिना । चक्षुरायत्कविषयं परतन्त्रं बहिर्मनः ॥ इति मण्डनमिश्रीयं वाक्यं विधिविवेकगम् । अत्कशब्दोऽन्तिकपरः संप्रयोगस्सतस्ततः ॥ अत्के चेन्मधु विन्देत किमर्थं यत्नमाचरेत् । इति शाबरवाक्येऽपि तच्छब्दः तादृशार्थकः ॥ 5 अथ कौमारिलादीनामेष तादात्म्यवादिनाम् । सांख्यादीनां च सिद्धान्ते विभागोऽत्र निरूप्यते अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ संमुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् । तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ॥ सामान्यं च विशेषश्च स्वरूपेणावगम्यते । नच व्यावृत्यनुगतिरूपेणेति विनिर्णयः ॥ ततःपरं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन संमता ॥ जातिव्यक्त्योरभेदेन ग्रहः प्राथमिके ग्रहे । भेदाभेदस्ततस्सिद्धः स च तादात्म्यलक्षणः ॥
350 मानमेयरहस्यश्लोकवार्तिके तस्माद्यतोयतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ (72) विकल्पवादः. 1 निर्विकल्पकमेवैकं प्रत्यक्षं, सविकल्पकम् । यत्तु तत् स्मृतिरित्याहुः वैभाषिकमुखा बुधाः ॥ सविकल्पकमप्येतत् प्रत्यक्षमिति वैदिकाः । प्रत्यक्षवार्तिकश्लोकान् विलिखामि विविक्तये ॥ 2 तेनेन्द्रियार्थसंबन्धे विद्यमाने स्मरन्नपि । विकल्पयन् स्वधर्मेण वस्तु प्रत्यक्षवान्नरः ॥ नहि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु । अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥ यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः । पश्चात्तत्रावबुध्यन्ते तथा जात्यादिधर्मतः ॥ यदि त्वालोच्य संमील्य नेत्रे कश्चिद्विकल्पयेत् । न स्यात्प्रत्यक्षता तस्य संबन्धाननुसारतः ॥ वृद्धप्रयोगगम्याश्च शब्दार्थास्सर्व एव नः । तेन यत्र प्रयुक्तोऽयं न तस्मादपनीयते ॥ सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
विकल्पवादः 351 संबद्धं वर्तमानं च गृह्यते चक्षुरादिना । सामान्यं वा विशेषो वा ग्राह्यं नात्र विवक्ष्यते ॥ न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते । प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥ जात्याद्यर्थान्तरं तस्मात्तद्रूपेष्वेव वस्तुषु । विकल्प्य जायते बुद्धिरित्याद्यत्रैव विस्तरः ॥ न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं कालेन जायते ॥ न सोऽस्ति प्रत्ययो लोके यो देशानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं देशेन जायते ॥ न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते ॥ न सोऽस्ति प्रत्ययो लोके यस्सत्त्वानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं सत्त्वेन गृह्यते ॥ चतुर्षु चैषु न्यायेषु द्वयं मीमांसकैर्मतम् । अतः कालश्च देशश्च सकलेन्द्रियगोचरः ॥ तृतीयस्तु पुनः प्रायो वैयाकरणसम्मतः । निर्विकल्पकविज्ञानस्थापनाय स खण्ड्यते ॥ तुरीयस्तु सदद्वैतवादिसिद्धान्तसंमतः । निर्विशेषपरब्रह्मापरोक्षत्वाय संश्रितः ॥
352 मानमेयरहस्यश्लोकवार्तिके ३ प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम् । पूर्वानुभूतसंस्कारसचिवं सविकल्पकम् ॥ केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम् । यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते ॥ सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते । तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते ॥ सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः । अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः ॥ तदतद्गोचरत्वाभ्यां विकल्पेऽस्तित्वनास्तिते । निरीहादिस्वन इव निर्विकल्पस्वनो मतः ॥ योगेऽपि निर्विकल्पाख्यसमाधिर्योऽनुशिष्यते । अर्थमात्रविनिर्भासं स्वरूपविकलं यथा ॥ तत्रापि निर्विशेषार्थग्रहणं नोपदिश्यते । किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः ॥ ४ परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता । प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता ॥ कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः । सार्वदेशं सार्वकालं तत् त्रिकालादिगोचरम् ॥ शब्दसंसर्गयोग्यार्थप्रतिभासाः विकल्पनाः । स्मृतिव्यवहिताः तस्मादनर्थजनिता मताः ॥
विकल्पवादः 35 इत्येवं कल्पनावादिविशेषैकार्थवादिनः । विबुधाः प्रत्यवस्थातुं नानावादान्वितन्वते ॥ शब्दासंस्पर्शवादापनोदायैव हि शाब्दिकाः । शब्दस्य ज्ञानमात्रे तु भानमिच्छन्त्यनेकधा ॥ यथा विषयभेदेन प्रतीतिर्भिद्यते तथा । उपायभेदात्तद्भेदः सर्वानुभवसाक्षिकः ॥ समवायो हि नाध्यक्षः वैशेषिकमते स्थितः । तथापि तन्तुष्वेवायं पट इत्यादिबुद्धिकृत् ॥ तथैव च चिराक्षिप्रदूरासन्नादिबुद्धिकृत् । कालदेशविशेषः स्यात् सहकारिनियन्त्रितः ॥ निर्विकल्पकमध्यक्षं सविकल्पकमेव तत् । उभयात्मकमित्येतत् विलक्षणमितीतरे ॥ सौगतः प्रथमः पक्षः शाब्दिकस्तदनन्तरः । मैमांसकः तृतीयः स्यात् तुर्यो नैयायिकस्स्मृत सामग्र्यास्तु प्रमाणत्वे प्रमा फलमितीष्यते । प्रमायास्तु प्रमाणत्वे फलं हानादिबुद्धयः ॥ प्रमाणसामान्यवादे विस्तरोऽस्य कृतोऽधुना । विशेषांशा हि सूच्यन्ते विस्तरः तैर्थिकैः कृतः 5 न कदाचित्क्वचिद्दृष्टं निर्व्यापारं तु कारकम् । इन्द्रियाणां कारकत्वात्सन्निकर्षपरिग्रहः ॥ M.R. 45
354 मानमेयरहस्यश्लोकवार्तिके तत्र षोढा सन्निकर्षः लौकिकः परिकीर्तितः । ज्ञानसामान्ययोगोत्थभेदेनालौकिकस्त्रिधा ॥ तत्प्रत्यक्षं द्वित्रिचतुस्सन्निकर्षात्प्रवर्तते । तत्रात्मसुखरूपादिविषयास्स्युर्यथाक्रमम् ॥ आत्मचित्तेन्द्रियार्थाः स्युः सन्निकर्षस्य चाश्रयाः इति नैयायिकाः प्राहुः अत्र मीमांसकाः पुनः ॥ चतुर्विधः संप्रयोगः द्रव्ये संयोगलक्षणः । गुणे संयुक्ततादात्म्यं गुणत्वे तद्वदात्मता ॥ गुणत्वगतसत्तायां तद्वत्तादात्म्यलक्षणः । श्रोत्रेण शब्दग्रहणमजसंयोगजं विदुः ॥ त्रिविधस्संनिकर्षः स्यादिति प्राभाकरा विदुः । संयोगस्संयुक्तसमवायश्च तदनन्तरः ॥ समवायस्तृतीयस्स्यात् तैर्हि स्यात्सर्वसंग्रहः । अलौकिकः सन्निकर्षः न मीमांसकसंमतः ॥ यच्चालौकिकविज्ञानं स्मरणं वाऽथ लैङ्गिकम् । योगस्यानुपगन्तृत्वात् योगी नैवास्ति तन्मते ॥ सर्वज्ञानामभावेन धर्मो वेदैकलक्षणः । आभिमुख्यं सन्निकर्ष इति संयोगदूषकाः ॥ यथाकथंचित्संबन्धं विदुस्सर्वेऽपि वादिनः । निर्विकल्पस्य विषयविकल्पस्याथ संग्रहः ॥
विकल्पवादः 35: 6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् । महासामान्यमस्येति सदद्वैतविदो विदुः ॥ वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः । केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥ केचिच्छकलितं वस्तु विदुः नैयायिकादयः । विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥ प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः । परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥ परप्रत्यायने पुंसां शरणं शपथोक्तयः । प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥ 7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥ सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् । सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥ यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च । तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥ साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः । अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥
356 मानमेयरहस्यश्लोकवार्तिके
बुद्धिवृत्तिः चितिच्छायामापन्नाऽध्यक्षमिष्यते । पातञ्जलैः कापिलैश्च तथा तन्मार्गगामिभिः ॥ प्रत्यक्षलक्षणं प्राहुः स्पष्टतां पुनरार्हताः । अस्पष्टमनुमानादि सद्विशेषाप्रकाशनात् ॥ चार्वाकोऽशक्यकरणं मेने मानस्य लक्षणम् । तथैव संख्यानियमं तत्रोदाहरणं त्विदम् ॥ वक्राङ्गुलिः प्रविरलाङ्गुलिरेष करस्त्विति । जानाति मीलिताक्षोऽपि तमस्यपि पुमानयम् । निशि दीपशिखा दूराद्दृष्टा कुर्यात्प्रभामतिम् । अनुवातं दूरगते गन्धे बुद्धिः प्रजायते ॥ शब्दादिविषया बुद्धिः विचित्रा सर्वसम्मता । तस्मादनुगमोऽशक्यकरणः हृदयंगमः ॥ सर्वेष्वपि च सिद्धान्तेष्विन्द्रियं क्रियते पुरः । ततस्त्वर्थानुगुण्येन परिष्कारो विजृम्भते ॥ 8 अथात्र सांख्यप्रत्यक्षे विशेषः श्लोकवार्तिके । शब्दनित्यत्वाधिकृतावक्षिप्तस्सोऽभिधीयते ॥ विषयः प्रथमं स्वीयेन्द्रिये ह्यालोचनात्मकम् । स्वाकारं वृत्तिपर्यायं विकारं कुरुते स्वयम् ॥ सा च वृत्तिस्समागत्य देशं तं विषयस्य च । प्रकाशं विषयाकारं आधत्ते महदात्मनि ॥
बुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति । तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा ॥ प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते । कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये ॥ प्राप्तिस्सर्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि । विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः ॥ तदौपनिषदाः प्रायस्सर्वे नैयायिकाध्वगाः । तत्रापि सन्निकर्षादिः स्वसामग्रीनिबन्धनः ॥ अदृष्टानियमाद्दृष्टनियमे लाघवं मतम् । मनोवैभवसिद्धान्ते विपरीतं बलाबलम् ॥ 9 अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे । प्रत्यक्षविषये किंचिद्विशेषांशोऽत्र सूच्यते ॥ चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम् । तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम् ॥ संसर्गानवगाहेतज्ज्ञानं स्यान्निर्विकल्पकम् । सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते ॥ संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता । ज्ञानस्याध्यक्षत्वमिति नव्यानामिह निर्णयः ॥
358 मानमेयरहस्यश्लोकवार्तिके
चैतन्याभिव्यञ्जकत्वं विषयस्यापरोक्षता । अन्तःकरणसम्बन्धादस्वच्छे स्वच्छता भवेत् ॥ प्रमात्रभिन्नत्वमिति परेषां तत्र निर्णयः । प्रमातृसत्तातिरिक्तसत्ताशून्यत्वलक्षणम् ॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥
(73) प्रतिबिम्बवादः
1 प्रतिबिम्बविचारोऽस्ति यः पुनश्श्लोकवार्तिके । प्रसङ्गात्तस्य सारांशे तज्जिज्ञासुकृते यते ॥ बिम्बान्न प्रतिबिम्बानां भेदः नापि परस्परम् । अबाधितप्रत्यभिज्ञा प्रमाणं सार्वलौकिकी ॥ अत्र केन निमित्तेन प्रतिपात्रं पृथक्पृथक् । भिन्नानि प्रतिबिम्बानि ज्ञायन्ते युगपत् नरैः ॥ अत्रोच्यते यदा चक्षुः प्रतिस्रोतः प्रवर्तितम् । स्वदेश एव गृह्णाति सवितारमनेकधा ॥ ईषन्निमीलितेऽङ्गुल्या यथा चक्षुषि दृश्यते । पृथगेकोऽपि भिन्नत्वात् चक्षुर्वृत्तेः तथैव नः ॥ 2 ये त्वत्र प्रतिबिम्बानामुत्पत्तिं प्राहुरार्हताः । तेषामभिप्राय एषः स्थूलदृष्टिपरिष्कृतः ॥