मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 399, कुल 672 में से
संदर्भ में पढ़ेंबुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति । तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा ॥ प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते । कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये ॥ प्राप्तिस्सर्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि । विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः ॥ तदौपनिषदाः प्रायस्सर्वे नैयायिकाध्वगाः । तत्रापि सन्निकर्षादिः स्वसामग्रीनिबन्धनः ॥ अदृष्टानियमाद्दृष्टनियमे लाघवं मतम् । मनोवैभवसिद्धान्ते विपरीतं बलाबलम् ॥ 9 अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे । प्रत्यक्षविषये किंचिद्विशेषांशोऽत्र सूच्यते ॥ चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम् । तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम् ॥ संसर्गानवगाहेतज्ज्ञानं स्यान्निर्विकल्पकम् । सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते ॥ संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता । ज्ञानस्याध्यक्षत्वमिति नव्यानामिह निर्णयः ॥