मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 382, कुल 672 में से
संदर्भ में पढ़ें340 मानमेयरहस्यश्लोकवार्तिके वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थिरम् । कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥ परस्परपरित्यागव्यवस्थितनिजात्मनाम् । एकत्र न समावेशः कथंचिदुपपद्यते ॥ स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता । क्षणिकत्वेऽपि कथिता कार्यकारणभावतः ॥ 2 क्षणभङ्गानुमानं च क्षणवादे निरूपितम् । तन्निरासांशसारोऽत्र संक्षिप्य प्रतिपाद्यते ॥ अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादौ व्यभिचारावधारणात् ॥ किंत्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । क्वचिच्च कालदेशादिनिबन्धनमपीष्यते ॥ अर्थक्रियासमर्थस्य तदुत्थं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वात् न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपिहि । क्रमेण युगपद्वापि न कार्यकारणे क्षमः ॥ क्षणिकस्य क्रमः कीदृक् युगपत्करणे पुनः । एकवस्त्वात्मकस्यापि रूपभेदः प्रसज्यते ॥ कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥